Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 214
________________ मारपाल प्रबन्धः । २०८॥ XX क्रमादुत्तीर्य पादलिप्तपुरे प्राप । तत्र च--राजन् ! शत्रुञ्जयगिरौ, रैवतादिरयं जिनैः । कथितः पञ्चमं शृङ्ग, पञ्चम| ज्ञानदायकम् ॥ १॥ कैलाश उञ्जयन्तश्च, रैवतः स्वर्णपर्वतः । गिरिनारनन्दभद्रावस्यारेष्विति चाभिधाः ।। २ ।। महा- तीर्थमिदं भूप! सर्वपापहरं स्मृतम् । शत्रुञ्जयगिरेरस्य, वन्दने सदृशं फलम् ॥ ३ ॥ इत्यादिकल्पोक्तानुसारेण महिमोपदेशोत्साहितो नपतिरात्मानं कृतार्थं मन्यमानः श्रीरैवतेश्वरं मनस्याधाय सुखप्रयाणैः पथि च वृक्षानपि सर्वप्रकारपूजोपचारेण सन्मानयन् क्रमादुजयन्ततीर्थं प्राप ।। समारोहति सूरीन्द्रे, नरेन्द्रेण समं तदा । स चकम्पे गिरिर्लङ्कापत्युत्पाटितशैलवत् ॥ ४ ।। तत्कम्पकारणं पृष्टः, सूरिराचष्ट तं प्रति । देवास्मिन् वर्तते मार्गे, शिला छत्रशिलाह्वया ।।५।। अधस्ताद्गच्छतोः पुण्यशालिनोर्युगपद्वयोः । निपतिष्यत्यसो मूर्ध्नि, श्रुतिरित्यस्ति वृद्धभूः ॥६।। तत आवयोर्युगपदत्रारोहणं पुण्यवतोर्न युक्तम् ; कदाचिदियं पतेत्, अतः प्रथमं श्रीपरमार्हतः श्रीनेमि प्रणमतु; पश्चादहमपि जिनं वन्दिष्ये, इत्युक्ते नृपतिविनयलोपतो यात्राफलं न स्यादिति वदन् श्रीगुरून् पूर्वं प्रापयति स्म, स्वयं तु पश्चादारूढः श्रीरैवतम् ।। एवं कृत्वा स सूरीन्द्रो, गूर्जरेन्द्रोऽपि सङ्घयुक् । क्रमात्प्रणेमतुर्नेमीश्वरं प्रत्यक्षदैवतम् ॥ १ ॥ जिनपूजनाङ्गरागाद्य भूयोभिः स्नात्रविस्तरैः । संचिन्वते स्म पुण्यानि, राजर्षिरपरेऽपि च ॥ २ ॥ तत्र च श्रीनेमिनः प्रतिमां वज्रमयीं सर्वातिशयशालिनीं दृष्ट्वा केनेयं मूर्तिः कदा च कारिता ? इति पृष्टा राज्ञा श्रीगुरवः प्राहुरेवम्-इहैव भरतेऽतीतचतुर्विशतिकायां तृतीयतीर्थकृत्सागरसमये उज्जयिन्यां नरवाहननूपोऽभूत् । तत्रान्यदा श्रीसागरजिनः समवसृतः । राजा वन्दनाय गतः । धर्मोपदेशश्रवणानन्तरं सभा बिलोकयिता केवलिपरिषद्दष्टवा पृष्टं च स्वामिपार्श्वे-अहं कदा केवली भावी? ॥२०८।।

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238