Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
कुमारपाल
| २०६॥
****
XXXK
जावसरे चारणः प्राह
इक्क फुल्लह माटि देइ जु नरसुरसिव सुहइ । एही करइ कुसाटि बपु भोलिमजिणवरतणी ॥ १ ॥ नवकृत्वः पाठे नवलक्षदानम् । मालीद्धट्टनसमये मिलितेषु श्रीनृपादिसङ्घपतिषु मन्त्री वाग्भट इन्द्रमालामूल्ये लक्षचतुष्कमुवाच । तत्र च राजाऽष्टौ लक्षान्, मन्त्री षोडशलक्षी, राजा द्वात्रिशल्लक्षान् एवं स्पर्द्ध या महामूल्ये क्रियमाणे कश्चित्प्रच्छन्नदाता सपादकोटीं चकार । ततश्चमत्कृतो नृपः प्रोचे, दीयतां माला, विलोक्यते मुखकमलं पुण्यवतः, इति श्रुत्वा मघुमती वास्तव्यमन्त्रिहांसाधारूसुतो जगडश्राद्धः सामान्यमात्रवेषाकारः प्रकटीबभूव । तं दृष्ट्वा मन्त्रिणं प्राह नृपो विस्मयाकुलमनाः, मन्त्रिन् ! द्रव्यसुस्थं कृत्वा दीयतां माला । जगडोऽपि राजवाचान्तः कषायितः सपादकोटिमूल्यं रत्नं दत्त्वाऽऽह — श्रीपरमार्हतभूप ! इदं तीर्थं सर्वसाधारणम्, अत्र च द्रव्यसुस्थमन्तरेण न हि कोऽपि वक्ति । ततस्तद्वचसा चमत्कृतो राजां तं श्राद्ध समालिङ्गय त्वं मम सङ्घे मुख्यः सङ्घपतिरिति समानन्द्य मानं दावा मालामपितवान् । तेनापि अष्टषष्टितीर्थेभ्योऽपि तीर्थभूता स्वमाता परिधापिता ।। लक्ष्मीवन्तः परेऽप्येवं बद्धस्पर्धाः शुभश्रियः । स्वयंवरणमालावन्मालां जगृहुरादरात् ।। १ ।। सर्वस्वेनापि को मालां, न गृह्णीयाजिनौकसि । इह लोकेऽपि यत्पुण्यैः, स्फुरेदि'न्द्रपदं नृणाम् ।। २ ।। एवं कृताऽऽरात्रिकमङ्गलोद्यतप्रदीपपूजाद्यखिलोपचारः । जिनं नमस्कृत्य स कृत्यवेत्ता, प्रजागुरुः प्राञ्जलिरित्युवाच । ३ ।। व्यतीयुदिवसा देव ! ये त्वत्सेवां विना कृताः । ते व्यथन्ते हृदन्तर्मा, करच्युतसुरत्नवत् ।।४।। सार्वभौमोऽपि मा भूवं, त्वद्दर्शनपराङ्गुखः । त्वद्दर्शनपरः स्यां तु, त्वच्चैत्ये विहगोऽप्यहम् ।। २ ।। ततः पश्वशक्रस्तवैर्दे
प्रबन्धः ।
॥ २०६ ॥

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238