________________
प्रबन्धः
।
राजानमनुपानत्पादचारिणं दृष्ट्वा गुरुराह-निरुपानत्पादचारात्तव क्लेशो महीपते !। आद्रियस्व तदश्वादि, धत्स्व मारपालाश वोपनही पदोः ॥ १॥ ततो व्यजिज्ञपत् क्ष्मापो, दौस्थ्ये प्राग् पारवश्यतः। पादाभ्यां न कियभ्रान्तं, परं तद्वयर्थतां गतम्
॥२॥ अयं तु तीर्थहेतुत्वात्पादचारोऽतिसार्थकः । येनानन्तभवभ्रान्तिर्मम प्रभ्रंशतेऽभितः ।। ३॥ एवं युक्त्या गुरो।२०२।।
भक्त्वा, वाहनग्राहणाग्रहम् । अभिग्रही च राजर्षिस्तथैव प्रास्थिताध्वनि ॥ ४ ॥ दृष्ट्वा राजगुरुं राजराजं च पादचारिणम् । तयोर्भक्तिकृतेऽन्येऽपि, पद्भ्यां चेलुर्मुनीन्द्रवत् ।। ५ ॥ भूयिष्ठत्वेन सङ्घोऽयं, मा स्म दूयिष्ट वर्त्मनि । इति चक्रे प्रयाणानि, पञ्चक्रोशानि सोऽन्वहम् ॥ ६॥ स्थाने स्थाने प्रभावना । जिने जिने हेमछत्रचामरादिदानम् । प्रतिप्रासादं स्वर्णरूप्यमुक्ताफलप्रवालपट्टकूलादिध्वजारोपाः ।
सर्वत्र सर्वेषामनिवारितभोजनानि । संमुखागतानेकनपव्यवहारिश्रीसङ्घपरिधापनानि । प्रतिदिनं द्वासप्ततिसामन्तादिश्रीसङ्घमेलनपूर्वकस्नात्रोत्सवः । प्रतिग्रामनगरादिसार्मिकवात्सल्यानि भोजनाच्छादनप्रच्छन्नद्रविणप्रदानादिभिः । प्रतिदिनं भोजनावसरे सीदतः श्रावकलोकान् भोजयित्वा दयादानश्रेयोर्थं बुभुक्षितजनभोजनदानपटहवादनम् । त्रिकालजिनपूजासामायिकप्रतिक्रमणपर्वपौषधादिसर्वक्रियाकलापसत्यापनम् । याचकजनवाञ्छितसिद्धिः । एवं लोकोत्तरकरणीयपरम्पराभिः
पथि जगजनमनांसि विस्मयश्रीजैनधर्माभ्युदयरसमयानि विदधानः सावधानवृत्तिर्धन्धूकपुरे श्रीहेमसूरिजन्मस्थाने पुराकाPM रितसप्तदशहस्तप्रमाणझोलिकाविहारे कृतस्नात्रध्वजारोपादिकृत्यः क्रमेण वलभीपुरीपरिसरे प्राप ।। स्थाप ईर्ष्यालुरित्यद्री, PA विद्यते तस्य गोचरे । गुरुस्तदन्तरे स्थित्वा, प्रातरावश्यक व्यधात् ॥ १॥ धर्मध्यानपरं तत्र, वीक्ष्य तं सूरिशेखरम् ।
XXXXXXXXXXXXXXXXXXXXXXXXXX
||२०२।।