________________
२०१ ।।
*******
'देव ! श्रीचौलुक्यभूप ! कर्णदेवो दिवं गतः । राजा प्राह-- कथम् ? चराः प्रोचुः -- पत्तनं प्रातरेवाहं, रोत्स्ये निजबलैरिति । स्वामिन् ! भवद्रिपुः कर्णो, निशि प्रास्थित सत्वरम् ।। १ ।। हस्तिस्कन्धाधिरूढस्य, निद्राविद्राणचेतसः । निशीथे गच्छ मार्गे, कण्ठस्थस्वर्णशृङ्खलम् ।। २ ।। लग्नं न्यग्रोधशाखाग्रे क्वचिदाबद्धपाशवत् । अधस्तात्प्रस्थिते नागे, तयोल्लम्बित विग्रहः ।। ३ ।। जलरोधेन सद्योऽपि, रिपुराप परासुताम् । तस्योर्द्धदेहिकं कृत्यं दृष्ट्वाऽत्र समुपागताः ॥ ४ ॥ हा हाकिमस्य संजातमिति शोकाकुलः क्षणम् । तदूचे गुरवे भूपस्तज्ज्ञानातिचमत्कृतः ।। ५ ।। चतुर्भिः कलापकम् ।।
ततो महामहोत्सवान् कृत्वा यात्राभेरीमदापयत् । तत्र श्रीस मुख्यसङ्घपतिः श्रीकुमारपालदेवः, द्वासप्ततिसामन्ताः, वाग्भटादिमन्त्रिणः नृपमान्यो नागश्रेष्ठित आभडः, षड्भाषाचक्रवर्ती श्रीदेपाल:, तत्पुत्रः सिद्धपालः कवीनां दात्ॠणां च धुर्य:, भाण्डागारिकः कपर्दी, प्रल्हादनपुरनिवेशको राणप्रल्हादः, नवनवतिहेमलक्षस्वामी श्रेष्ठी छाडाकः, राजद्रौहितृकः प्रतापमल्लः, अष्टादशशतव्यवहारिणः, श्रीहेमाचार्यादिसूरयः अन्येऽपि लोका ग्रामनगरस्थाननिवासिनः कोटिमिताः, षट् दर्शनानि, एकादशलक्षतुरङ्गमाः, एकादशशतगजाः, अष्टादशलक्षपदातयः अनेके मार्गणगणाः । एवं यात्रोत्सवाद्वैते, जायमाने नरेश्वरः । सद्यात्राया विधि मौलं, पप्रच्छ स्वच्छभावतः ॥ १ ॥ श्रीजैनधर्मधुर्यस्य गुरुर्गुरुगुणोज्ज्वलः । यात्राशुद्धविधि राज्ञः पुरः प्रोवाच सत्यवाक् ॥ २ ॥ यथा
सम्यक्त्वधारी पथि पादचारी, सचित्तवारी वरशीलभारी । भूस्वापकारी सुकृती सदैकाहारी विशुद्धां विदधाति यात्राम् ।। १ ।। * ॥ २०१ || गुरुदिताः षड् विदधत्विशुद्धा रीः सर्ववैरीरधुरीणवृत्तिः । यात्रार्थमित्थं स्थिरतास्तमेरुर्नरेश्वरः प्रास्थित तत्त्ववेत्ता ||२||