SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ २००। हार्दभक्तिसमन्वितः ।। ४ ।। मारपाल इत्यादिश्रीप्रभूपदेशामृतपञ्चवितश्रीतीर्थयात्रामनोरथः श्रीकुमारपालभूपालस्तदैव शुद्धलग्नादि निर्णाय्य सौवर्णजिनप्रति प्रबन्धः । मालङ्कृतसुवर्णरत्नजटितपट्टगजकुम्भस्थलस्थापितदेवालयः प्रस्थानमकरोत् सकलचैत्याष्टाह्निकोत्सवामारिपटहवादनकारागारविशोधनसमग्रश्रीसङ्घपूजादिमहामहोत्सवपरम्परापूर्वकम् । तदनु द्वासप्ततिसामन्तदेवालयाः ततश्चतुर्विंशतिप्रासादकारकश्रीवाग्भटादिमन्त्रिणां तदनन्तरमष्टादशशतव्यवहारिणां देवालयाः श्वेतातपत्रमेघाडम्बरसौवर्णमौक्तिकादिच्छत्रचामरश्रेणिशोभिताः । एवं प्रस्थानमहोत्सवे जायमाने चरैरागत्य निवेदितम् । देव ! डाहलदेशाधिपः कर्णदेवः प्रौढबलाकुलितभूवलयस्त्वामभिषेणयन् द्विवदिनरत्रागमिष्यति विर हेच्छया । तदाकर्णनमात्रेण, भाले प्रस्वेदबिन्दवः । चिन्ताम्भोधेरिवोद्भूताः, भूभुजः प्रोजजृम्भिरे ॥१॥ वाग्भटेन समं गत्वा, तदैव गुरवे रहः।कर्णयोः क्रकचाभं तद्विज्ञप्येति नृपोऽवदत् ।।२॥ यदि प्रस्थीयते । तीर्थे पश्चादेत्य तदा रिपुः मद्देशं विलीडयति । अथ तत्संमुखीभूय युद्ध क्रियते तदा द्वयोरप्यतिवलत्वेन भूयाननेहा P लगति । तावन्तं च कालं परदेशिकलोकः कथं तिष्ठति, इति चिन्तासमुद्रे पतितोऽस्मि । धिग् मामधमाग्रण्यं यद्यात्रामनोरथो भग्नः ।। वणिजोऽमी बरं सङ्घपतयः स्युः सुखेन ये। न त्वहं सङ्कपत्याप्तिभाग्यहीनः सुपर्ववत् ।। १ ।। इति ॥२०॥ श्रुत्वा प्रभुभिरूचे--मा विषीद नरेन्द्र ! त्वं, सुरेन्द्रेणेव यत्त्वया । श्रेयस्कृत्यं समारम्भि, भज्यते तन्न जातुचित् ।। १॥ स्वास्थ्यं द्वादशभिर्यामै वीति गुरुभिर्भशम । धीरितोऽपि कि भावीति, चिन्तातुरः सभास्थितः ।। २ ।। चरैरागत्य विज्ञप्तः, XXXXXXXXXXXXXXXXXXXXXXXXXXX
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy