Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 193
________________ १८७।। **** रिच्यते । यत- ओहो ओवउत्तो, सुयनाणी जइ हु गिन्हइ असुद्ध । तं केवलीवि भुंजइ, अपमाणसुयं भवे इहरा || १॥ एकमपि जिनागमवचनं चिलातीपुत्रादिभविनां भवविनाशहेतुः संपन्नम् । यद्यपि मिथ्यादृग्भ्य आतुरेभ्य इव पथ्यान्नं न रोचते जिनवचनं तथाऽपि तृतीयं नेत्रं द्वितीयो दिवाकरो नान्यत्स्वर्गापवर्गमार्गे प्रकाशनसमर्थमिति सम्यग्दृष्टिभि - स्तदादरेण श्रोतव्यम् । यतः समासन्नकल्याणभागिन एव भावतो भावयन्ति जिनवचनम् । इतरेषां तु कर्णशूलकारत्वेनामृतमपि विषायते । दुष्षमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनागमबहुमानिना तत्पुस्तकेषु लेखनीयम् । वस्त्रादिभिरभ्यर्चनीयम् । यदाह ये लेखयन्ति जिनशासनपुस्तकानि व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥ १ ॥ न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । नैवान्धतां बुद्धिविहीनतां च ये लेखयन्त्यागमपुस्तकानि ॥ २ ॥ लेखयन्ति नरा धन्याः, ये जिनागमपुस्तकम् । ते सर्वं वाङ्मयं ज्ञात्वा, सिद्धि यान्ति न संशयः ।। ३ ।। जिनागमपाठकानां भक्तिपूर्वकं सम्माननं च । यतः- पठति पाठ्यते पठतामसौ, वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः ॥ १ ॥ लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थं दानम्, व्याख्यायमानानां च प्रतिदिनं पूजा ।। १८७ ।।

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238