Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
प्रबन्धः ।
सद्रव्यं सत्कुले जन्म, सिद्धिक्षेत्रं समाधयः । सङ्घश्चतुर्विधो लोके, सकाराः पञ्च दुर्लभाः ॥ ६ ।। जिना अनन्ता अत्रयुः, सद्धाश्चात्रव वासव !। अनन्ता मनयश्चापि, तेन तीर्थमिदं महत ॥ ७ ॥ अज्ञानाद्यत्कृतं पापं, यौवने वार्द्ध केऽपि वा। तत्सर्वं विलयं याति, सिद्धाद्रेः स्पर्शनादपि ॥ ८ ॥ अन्यत्रापि कृतं पुण्यं, नृणां बहुफलं भवेत् । अत्रानन्तगुणं तच्च, * भवेत्क्षेत्रानुभावतः ॥ ९॥ नन्दीश्वरे तु यत्पुण्यं, द्विगुणं कुण्डले नगे । त्रिगुणं रुचके हस्तिदन्तेषु च चतुर्गुणम् ।।१०।।
एतद्विगुणितं जम्बूचैत्ये यात्रां वितन्वताम् । षोढा तु धातकीखण्डे, तच्छाखिजिनपूजनात् ।। ११ ।। पुष्करोदरबिम्बानां, द्वाविंशद्गुणसंमितम् । मेरुचूलाईदर्चायाः, पुण्यं शतगुणं भवेत् ॥ १२ ।। सहस्रं तु समेताद्रौ, लक्षसंख्याञ्जनाद्रितः । दशलक्षमितं श्रीमद्भवतेऽष्टापदे च तत् ।। १३ ॥ शत्रुञ्जये कोटिगुणं, स्वभावात्स्पर्शतो मतम् । मनोवचनकायानां, शुद्धयाऽनन्तगुणं नृणाम् ॥ १४ ।। एकैकस्मिन् पदे दत्ते, शत्रुञ्जयगिरि प्रति । भवकोटिसहस्रेभ्यः, पातकेभ्यः प्रमुच्यते ।।१५।। ऋषिहत्यादिभिः पापैर्भवकोटिकृतैरपि । मुच्यते दर्शनादस्य, स्पर्शनात्तु किमुच्यते ॥ १६ ।। नमस्कारसमो मन्त्रः, शत्रुअयसमो गिरिः । गजेन्द्रपदजं नीरं, निर्द्वन्द्वं भुवनत्रये ॥ १७ ॥ कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । इदं तीर्थं समासाद्य, तिर्यञ्चोऽपि दिवंगताः ॥ १८ ॥ स्पृष्टवा शत्रञ्जयं तीर्थं, नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ।। १९ ॥ यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । सङ्घशार्हन्त्यपदकृत् , स जीयाद्विमलाचलः ।। २० ॥ पल्योपमसहस्रं तु, ध्यानालक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे, सागरोपमसंमितम् ।। २१ ॥ शत्रुञ्जये जिने दृष्टे, दुर्ग- तिद्वितयं क्षिपेत् । सागराणां सहस्रं तु, पूजास्नात्रविधानतः ।। २२ ॥ एकभुक्तो भूमिशायी, ब्रह्मचारी वशेन्द्रियः ।
॥१९८।।

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238