SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः । सद्रव्यं सत्कुले जन्म, सिद्धिक्षेत्रं समाधयः । सङ्घश्चतुर्विधो लोके, सकाराः पञ्च दुर्लभाः ॥ ६ ।। जिना अनन्ता अत्रयुः, सद्धाश्चात्रव वासव !। अनन्ता मनयश्चापि, तेन तीर्थमिदं महत ॥ ७ ॥ अज्ञानाद्यत्कृतं पापं, यौवने वार्द्ध केऽपि वा। तत्सर्वं विलयं याति, सिद्धाद्रेः स्पर्शनादपि ॥ ८ ॥ अन्यत्रापि कृतं पुण्यं, नृणां बहुफलं भवेत् । अत्रानन्तगुणं तच्च, * भवेत्क्षेत्रानुभावतः ॥ ९॥ नन्दीश्वरे तु यत्पुण्यं, द्विगुणं कुण्डले नगे । त्रिगुणं रुचके हस्तिदन्तेषु च चतुर्गुणम् ।।१०।। एतद्विगुणितं जम्बूचैत्ये यात्रां वितन्वताम् । षोढा तु धातकीखण्डे, तच्छाखिजिनपूजनात् ।। ११ ।। पुष्करोदरबिम्बानां, द्वाविंशद्गुणसंमितम् । मेरुचूलाईदर्चायाः, पुण्यं शतगुणं भवेत् ॥ १२ ।। सहस्रं तु समेताद्रौ, लक्षसंख्याञ्जनाद्रितः । दशलक्षमितं श्रीमद्भवतेऽष्टापदे च तत् ।। १३ ॥ शत्रुञ्जये कोटिगुणं, स्वभावात्स्पर्शतो मतम् । मनोवचनकायानां, शुद्धयाऽनन्तगुणं नृणाम् ॥ १४ ।। एकैकस्मिन् पदे दत्ते, शत्रुञ्जयगिरि प्रति । भवकोटिसहस्रेभ्यः, पातकेभ्यः प्रमुच्यते ।।१५।। ऋषिहत्यादिभिः पापैर्भवकोटिकृतैरपि । मुच्यते दर्शनादस्य, स्पर्शनात्तु किमुच्यते ॥ १६ ।। नमस्कारसमो मन्त्रः, शत्रुअयसमो गिरिः । गजेन्द्रपदजं नीरं, निर्द्वन्द्वं भुवनत्रये ॥ १७ ॥ कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । इदं तीर्थं समासाद्य, तिर्यञ्चोऽपि दिवंगताः ॥ १८ ॥ स्पृष्टवा शत्रञ्जयं तीर्थं, नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ।। १९ ॥ यो दृष्टो दुरितं हन्ति, प्रणतो दुर्गतिद्वयम् । सङ्घशार्हन्त्यपदकृत् , स जीयाद्विमलाचलः ।। २० ॥ पल्योपमसहस्रं तु, ध्यानालक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्गे, सागरोपमसंमितम् ।। २१ ॥ शत्रुञ्जये जिने दृष्टे, दुर्ग- तिद्वितयं क्षिपेत् । सागराणां सहस्रं तु, पूजास्नात्रविधानतः ।। २२ ॥ एकभुक्तो भूमिशायी, ब्रह्मचारी वशेन्द्रियः । ॥१९८।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy