________________
१८७।।
****
रिच्यते । यत-
ओहो ओवउत्तो, सुयनाणी जइ हु गिन्हइ असुद्ध । तं केवलीवि भुंजइ, अपमाणसुयं भवे इहरा || १॥
एकमपि जिनागमवचनं चिलातीपुत्रादिभविनां भवविनाशहेतुः संपन्नम् । यद्यपि मिथ्यादृग्भ्य आतुरेभ्य इव पथ्यान्नं न रोचते जिनवचनं तथाऽपि तृतीयं नेत्रं द्वितीयो दिवाकरो नान्यत्स्वर्गापवर्गमार्गे प्रकाशनसमर्थमिति सम्यग्दृष्टिभि - स्तदादरेण श्रोतव्यम् । यतः समासन्नकल्याणभागिन एव भावतो भावयन्ति जिनवचनम् । इतरेषां तु कर्णशूलकारत्वेनामृतमपि विषायते । दुष्षमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनागमबहुमानिना तत्पुस्तकेषु लेखनीयम् । वस्त्रादिभिरभ्यर्चनीयम् । यदाह
ये लेखयन्ति जिनशासनपुस्तकानि व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥ १ ॥
न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । नैवान्धतां बुद्धिविहीनतां च ये लेखयन्त्यागमपुस्तकानि ॥ २ ॥ लेखयन्ति नरा धन्याः, ये जिनागमपुस्तकम् । ते सर्वं वाङ्मयं ज्ञात्वा, सिद्धि यान्ति न संशयः ।। ३ ।। जिनागमपाठकानां भक्तिपूर्वकं सम्माननं च । यतः-
पठति पाठ्यते पठतामसौ, वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः ॥ १ ॥ लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थं दानम्, व्याख्यायमानानां च प्रतिदिनं पूजा
।। १८७ ।।