________________
मारपाल
१८८।।
पूर्वकं श्रवणं चेति जिनागमक्षेत्रे धनपवनम् । तथा
यः संसारनिरासलालसमति मुक्त्यर्थमुत्तिष्ठते, यं तीर्थं कथयन्ति पावनतया येनास्ति नान्यः समः ।
यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते, स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन् स सङ्घोऽर्च्छताम् ||१| इति चतुर्विधश्रीसङ्घ साधुसाध्वीश्रावकश्राविकारूपे सर्वशक्त्या स्वर्णरत्नाभरणपट्टकूलान्नपानादिप्रदानैः स्वधनवपनमिति । तथा —
व्रतादिधर्मः सर्वोऽपि पालितः शुद्धभावतः । स्वस्यैव भवपाथोधेस्तारकः खलु कीर्तितः ।। १ ।। सप्तक्षेत्रीधनारोपसंभवस्तुविशेषतः । स्वान्ययोर्मुक्तिदः शश्वन्महाश्राद्धत्वदायकः ॥ २ ॥
इत्यादिश्रीगुरूपदेशामृतरसोजीवितप्रभावनाधर्म मनोरथसुरभूरुहः स्वलक्ष्मीं कृतार्थीचिकीर्षुर्महाश्रावकपदमधिरोढुं चत्यादिनिर्मापणविधौ प्रावर्तत श्रीपरमार्हतभूपः । तत्र पत्तने श्री त्रिभुवनपालविहारः पञ्चविंशतिहस्तोच्चः सपादशताङ्गुलमितश्रीनेमिप्रतिमालङ्कृतः स्वपितृश्रेयसे द्वासप्ततिजिनालयसमन्वितः कारितः । यदुक्तम्-
तत्तो इहेव नयरे, कराविओ कुमरवालदेवेण । गुरुओ तिहुणविहारो, गयणतलुत्तं भणक्खंभो ।। १ ।। कंचणमयआमलसारकलसकेऊपहाहिं पिंजरिओ । जो भन्नइ सच्चं चिय, जणेण मेरुत्ति पासाओ ।। २ ।। जम्मि महप्पमाणा, सब्बुत्तमनीलरयणनिम्माया । मूलपडिमा निवेणं, निवेसिया नेमिनाहस्स ॥ ३ ॥ कुसुमोह अचिया जा जणाण काउं पवित्तयं पत्ता । गंगात रंगरंगंतचंगिमा सहइ जउण व्व ।। ४ ।
प्रबन्धः ।
।। १८८ ।।