________________
१८९॥
. वताण जिणाणं, रिसहप्पमुहाण जत्थ चउवीसा। पित्तलमयपडिमाओ, कराविया देवउलियासू ।। ५॥ .
एवमइकंताणं, तह भावीणं जिणाण पडिमाओ । चउवीसा चउवीसा, निवेसिया देवउलियासुं ॥६॥
इयपयडियधयजसडंबराहिं बाबत्तरीइं. जो तुंगो। सप्पुरिसो व्व कलाहिं, अलंकिओ देवकुलियाहिं ।। ७ ॥ ___ तथा पुरोन्दुरद्रव्यं गृहीतमभूत्तत्प्रायश्चित्तै उन्दुरवसहिका कारिता पुरा मार्गे देवश्रिया करम्बो दत्तस्तन्नाम्ना करम्बE वसहिकाऽपि । प्राक्क्लुप्तपललाहारपापशुद्धये द्वात्रिंशत्प्रासादाः । एकवेद्यां षोडशसंमुखाः षोडश प्रासादाः, तेषु चतुर्विंश
तिजिनचतुर्विहरमाणजिनप्रतिमाः, रोहिणी १, समवसरणम् २, चैत्यद्रुः ३, श्रीगुरुसुवर्णपादुका ४ श्व, एवं द्वात्रिंशत् ।। ___ अन्यदा जैनधर्मप्रतिपत्तेः पूर्वं सर्वतोऽपि द्वियोजनी यावत्खदिरबदर्याद्रुमवनगहनादिना दुर्गाोऽजयमेरुदुर्गेऽर्णोराजजयार्थमेकादश वाराः श्रीकुमारनृपस्तत्र जगाम, परं दुर्गो गृहीतुं न शेके । ततोऽतिखिन्नेन राज्ञा मन्त्रिवाग्भटः पृष्टः, अस्ति कोऽपि भवतां सप्रत्ययो देवः ? यदुपासनादिना रिपुरसी जीयते । ततो मन्त्रिणा विज्ञप्तम्-इह श्रीपत्तने पितुः श्रीउदयनमन्त्रिणः श्रेयसे मया कारित देवकुलिकायां खत्तके श्रेष्ठिछाडाकारितं श्रीहेमसूरिप्रतिष्ठितं श्रीअजितनाथबिम्बं जाग्रन्महिमोदयं समस्तीति तद्विम्बपूजाभोगादिनाऽवश्यं स्वामिना वैरी जीयते एव । ततो राज्ञा तच्चमत्कारा तत्र गत्वा तदजितबिम्बपूजोपचारादि विधाय विजययात्रायै प्रस्थितः । तन्महिमानुभावात्तं वैरिणं निगृह्य जयश्रियं प्राप्य पश्चादागच्छता राज्ञा मार्गे तारणदुर्गोऽतिरमणीयो दुर्गाह्यश्च दृष्टः । तदनु महोत्सवः पत्तनमलञ्चक्रे । जिनधर्मप्राप्तौ चैकदा श्रीगुरुवन्दनायागतेन राज्ञा श्रीगुरवः श्रीअजितनाथस्तूतिं पठन्तो दृष्टाः । तदा श्रीअजितबिम्बप्रभावः
KXXXXXXXXXXXX XXXXXXXXXXXXXXX
॥१८९।।