________________
'मारपाल
प्रबन्ध
१९०॥
स्मृतिपथमायातः । हृष्टेन श्रीगुरुभ्यो विज्ञप्तं तत्स्वरूपम् । गुरुभिरपि हे श्रीचौलुक्यभूप ! अयं तारणदुर्गोऽनेकमुनिसिद्धिप्रापकत्वेन श्रीशत्रुञ्जयतीर्थप्रतिकृतिरूप एवेति व्याख्याते श्रीकुमारभूपेन तत्र कोटिसिद्धपूतकोटिशिलादिमनोरमे श्रीतारणदुर्गे चतुर्विशतिहस्तोच एकोत्तरशताङ्गुलश्रीअजितबिम्बालङ्कृतः प्रासादः कारितः। यदुक्तम्--
विहार उचितः श्रीमन्नक्षय्यस्थानभावतः । शत्रुञ्जयापरमूर्तिगिरिरेष विमृश्यताम् ॥ १ ॥
चतुर्विंशतिहस्तोचप्रमाणं मन्दिरं नृपः । बिम्ब चैकोत्तरशताङ्गुलं तस्य न्यधापयत् ॥ २ ॥ __स्तम्भतीर्थे श्रीहेमाचार्यदीक्षास्थाने श्रीआलिगाख्या वसतिः श्रीगुरुस्नेहेन रात्नश्रीवीरबिम्बसौवर्णश्रीगुरुपादुकाविराजिताऽकारि । अथान्यदा श्रीराजर्षिः प्रातः श्रीगुरुवन्दनार्थं मार्गे गच्छन् वचःपथातिगरामणीयातिशयविशेषितं प्रासाद श्रीबाहडदेवेन कार्यमाणं दृष्ट्वा कौतुकात्तत्र प्राप्तः । पूर्वमागतेन श्रीबाहडमन्त्रिणा प्रणामपूर्वं दत्तबाहुः सर्वत्र चैत्यशोभां
पश्यन विस्मयहतचित्तो यावदास्ते तावन्नेपालदेशनपप्राभूतमेकविंशत्यङगलमितं चन्द्रकान्तमणिबिम्बं श्रीपाश्वस्य तत्रागात् । तद्विम्बं चन्द्रबिम्बाभ, पश्यतो नपतेमहः । अमोदिषातामुचित्तं, कुमुदे इव लोचने ।। १।। तां मूर्ति स्वकरे कृत्वा, भूपो वाग्भटमभ्यधात् । देहि मह्य मिदं चैत्यं, यथैतां स्थापयाम्यहम् ।।२॥ एवं राजनमालोक्य प्रार्थनापरं लोकाः प्राहुः--
क्वापि जैनेन्द्रधर्मस्य, महिमा न हि मात्यहो। यदेवं याचते भूपो, मन्त्रिणं विनयान्वितः ॥१॥ तदनु हृष्टो मन्त्री महाप्रसादोऽयमिति सविनयं विज्ञपयन् श्रीकुमारविहारोंऽस्त्वयमिति राजाज्ञया कारितवान् चतु
॥१९॥