________________
श्र पुरा श्रीनेमिजिनोपदेशात् श्रीकृष्णनृपो द्वारकाया बहिनिर्गमनियमं कृतवान् । इत्यादि श्रीगुरूपदेशं सफलतां नयन् कुमारपाल श्रीचौलुक्योऽपि मया वर्षामासचतुष्टये श्रीपत्तनपुरप्रतोलीम्यः परतो न गन्तव्यमिति नियमं जग्राह । तथा--दर्शनं सर्व- प्रबन्धः
चैत्यानां, गुरोरपि च वन्दनम् । मुक्त्वा पुरेऽपि न प्रायो, भ्रमिष्यामि घनागमे ।। १ ।। वाचा युधिष्ठिरः श्रीमान् , निज।१७२॥
मङ्गीकृतं व्रतम् । न तत्तत्याज चौलुक्यसिंहः कार्ये महत्यपि ।। २ ।। स तस्य नियमः सर्वत्र तादृग् पप्रथे। ___ अथ तं तथाऽभिग्रहं गूर्जरसमृद्धि च चरेभ्यो ज्ञात्वा गूर्जरदेशभञ्जनाय गर्जनेशः शकानेकानीकदुर्द्धरः प्रयाणमकरोत् । तदEs वसरे गर्जन्यागतचरैविज्ञप्तम्-श्रीचौलुक्य ! तवाभिग्रहं श्रुत्वा गर्जनप्रभुर्देशादिभङ्ग चिकीर्षुरागच्छन्नस्तीति चरविज्ञप्ति श्रुत्वा ।
चिन्ताक्रान्तोऽमात्यसहितो वसतिमभ्येत्य गुरुमब्रवीत्--चरैरद्य प्रभो ! प्रोक्तं, तुरष्काधिपतिः स्वयम् । प्रस्थाय गर्जनादत्रागच्छन्नस्ति महाबली ।। १ ।। सहिष्णुरपि तं भक्तुमसहिष्णुरिवास्म्यहम् । वर्षारात्रे गृहान्नैव, बहिर्यामीत्यभिग्रहात् ॥२ ।। यद्यहं संमुखं न यामि तदा देशभङ्गे लोकपीडा, गमने च नियमोल्लङ्घनम् । गुरुः--श्रीचौलुक्य ! त्वदाराधि
तधर्म एव सहायी तव, चिन्ता सर्वथाऽपि न कार्या ।। इत्या श्वास्य नृपं सूरिः पद्मासनमधिश्रितः । परमं दैवतं Pad दन्तातुं प्रचक्रमे ।। ३ ।। अतिक्रान्ते मुहूर्तेऽथ, समायान्तं नभोऽध्वनां । पल्यङ्कमेकमद्राक्षीदिव्यक्षौमास्तृतं नृपः
॥ ४ ॥ अम्बरेऽसौ निरालम्बो, विद्याधरविमानवत् । कथमेतीति विस्मेरः, स तं मुहुरवेक्षत ।। ५ ।। गगनात्तावदुत्तीर्य, ॥१७२।। स पल्यङ्कः क्षणादपि । गरोः पुरः स्थिरस्तस्थौ, सुप्तकपुरुषाश्रितः ॥ ६ ॥ पल्यङ्कः कोऽयमत्रायं, कः पुमानिति वेह किम् ? । इति प्रश्नपरं भूपं, बभाषे गुरुपुङ्गवः ।। ७ ।। तवोपर्यापतन्योऽस्ति, शकाधीशो महाबली । पल्यङ्कशयितः सोऽयं,
EXXXXXXXXXXXXXXXXXXXXXXXXX