SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ । १७१।। CITII इति मतिमान् श्रीपरमार्हत एवं कृतवान् परिग्रहप्रमाणं पूर्व दृष्टश्रुतपूर्वमहापुरुषपरिग्रहानुसारतः । यथा -- स्वर्णकोटयः षट्, रूप्यकोटयोऽष्ट, महार्हमणीनां सहस्रतुला । अपरद्रव्यकोटयोऽनेका एव - कुम्भखारीसहस्रे द्वे, प्रत्येकं स्नेहधान्ययोः । पञ्च लक्षाच वाहानां सहस्रं चोष्ट्रहस्तिनाम् ॥ १ ॥ अयुतानि गवामष्टी, पञ्च पञ्चशतानि च । गृहापणसभायानपात्राणामनसामपि ।। २ ।। एकादशशतांनीभाः, रथाः पञ्चाऽयुतप्रमाः । हयैकादशलक्षाच पत्त्यष्टादशलक्षकाः ।। ३ ।। एतत्सैन्यमेलापक प्रमाणम् । सर्वप्रकारैः पापव्यापारनिवृत्तिमिच्छोस्तस्य श्रीधर्मात्मनोऽपरवस्तूनां प्रमितिः किमुच्यते ? | ये केचन लवणतिललोहगुल्यादिपापद्रव्यागमास्तेषां नियम एव ।। रत्नस्वर्णादिवस्तूनां सत्यां वृद्धवनेकधा । स्वल्पं परि ग्रहं चक्रे, धर्मात्मा पञ्चमव्रते । १ ।। अपि च सर्वः कोऽपि परिग्रहं बहुपरं ह्याशापिशाचीहतः, संप्रत्यत्र करोति सौवविभवात्प्रायः सतोऽनेकधा । यस्तु स्वर्णधनादि भूरि सदपि प्रोज्झाञ्चकार स्वयं, संतोषात्स कथं कुमारनृपतिर्न स्यात्प्रणम्यः सताम् ।। १ ।। जगच्चेतश्चमत्कारिपञ्चाणुव्रतधारकः । परमार्हतभूमीशश्चिरं जीतात् कुमारराट् ॥ १ ॥ व्रते दिग्यात्राविरतिरूपे - चराचराणां जीवानां विमर्दननिवर्तनात् । तप्तायोगोलकल्पस्य, सद्व्रतं गृहिणोऽप्यदः ॥ १ ॥ विवेकाद्भुतपुरुषेण सर्वदाऽपि जीवदयानिमित्तं दिग्गमननिवृत्तिविधेया, विशेषतश्च वर्षासु । यतः - "दयार्थं सर्वजीवानां, वर्षास्वेकत्र संवसेत्" ***** ।। १७१ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy