________________
कुमारपाल
प्रबन्धः ।
1१७०॥
मेऽतः परं यावजीवं ब्रह्मचर्य सर्वव्रततपोनियमादिक्रियाकलापसाफल्यकारि । यदागमः
जेण सुद्धचरिएण वयाणि दाणाणि तवोनियमाईणि सुचरियाणि भवंति-इति ।। सामन्तादयः--राजन् ! पट्टराज्ञी विना कथं मङ्गलोपचारा राज्ञो जायन्ते, न ह्यन्यलोकवद्भूमीधवा गृहिण्युपचारवजिताः श्रुता दृष्टा वा । राजा--अहो ! राजन्याः ! श्रीगाङ्गेयः पितामह आजन्माऽकृतपाणिग्रह एव सकलमहीपालमौलिमौलीयिताज्ञः किं विस्मृतिपथमानीयते ?, तद्भोः । सम्प्रति ममापि यावज्जीवं ब्रह्मवतोच्चारमहोत्सवः कर्तमुचितः । इत्यादिधर्मवचोयुक्त्या पर्यवसाप्य सकलसामन्तादिलोकसमक्षं महता महेनाबालब्रह्मचारिश्रीहेमाचार्यश्रीमुखेन ब्रह्मवतमङ्गीकृतवान् । तदनु मन्त्रिभिः समग्रराजधर्ममङ्गलोपचारारात्रिकमङ्गलप्रदीपकरणावसरे स्वर्णमयीं भोपल्लदेवी निर्माप्य सा राज्ञः पार्श्वे स्थाप्यते ।। अयं राजर्षिरित्याहां, प्राप्तप्रौढिं वितन्वतः । अजिब्रह्मलीनस्य, चौलुक्य ! तव कः समः?||१।। इत्युपश्लोकितः पुण्यश्लोको लोकोत्तरर्नरैः । श्रीकुमारनृपः शुद्धश्रद्धालु यताच्चिरम् ॥ २ ॥
पञ्चमवतेऽपरिमितपरिग्रहप्रत्याख्यानपूर्वमिच्छापरिमाणप्रतिपत्तिरूपेएनः केन धनप्रसक्तमनसा नासादि हिंसात्मना, कस्तस्यार्जनरक्षणक्षयकृतर्नादाहि दुःखानलैः । . तत्प्रागेव विचार्य वर्जय चिरं व्यामूढ ! वित्तस्पृहां, येनकास्पदतां न यासि विषये पापस्य तापस्य च ।।१।।
___ संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ।। २ ॥ इत्यादिगुरुवचःश्रवणतः पापभीरुतया यदधिकं स्वर्णादि भवेत्तद्धर्मस्थाने नियमितपरिग्रहवता सुखेन व्ययीक्रियत
छ
।