________________
।१६९॥
चतुर्थव्रते परदारगमनवर्जनरूपे स्वदारसंतोषरूपे च ॥ यः स्वदारेषु सन्तुष्टः, परदारपराङ्मुखः । स गृही ब्रह्मचारित्वाद्यतिकल्पः प्रकल्प्यते ॥ १ ॥ मनसाऽपि परेषां यः, कलत्राणि न सेवते । स हि लोकद्वये देव !, तेन वै सा धरा धृता ।। २ ।। तस्माद्धर्मार्थिना त्याज्यं, परदारोपसेवनम् । नयन्ति परदारास्तु, नरकानेकविंशतिम् ॥ ३ ॥
इति श्रुत्वाधिगतपरमार्थः श्रीराजर्षिराजन्माङ्गीकृतपरनारीसहोदरंव्रतः स्वदारसंतोषव्रती जातः । अतः परं पाणिग्रहणनियमः । श्रीचौलक्यनपेण धर्मप्राप्तेः पूर्वं बहोऽपि राजकन्याः परिणीताः, परं धर्मप्रतिपत्त्यवसरे तासां स्वल्पायुष्टवादेकव भूपलदेवी पट्टराज्ञी बभूव । तदवसरे विवाहनियमी ॥
जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिय पुण्णं, जत्तिय बंभव्वए धरिए ॥१॥ एकरात्र्युषितस्यापि, या गतिब्रह्मचारिणः । न सा क्रतुसहस्रण, कर्तुं शक्या युधिष्ठिर! ॥ २ ॥
इति स्वपरसमयज्ञः सर्वदा ब्रह्मचर्याभिलाषी वर्षासु मासचतुष्टये त्रिधा शीलपालनं प्रतिपन्नम् । तत्र मनसा भने क्षपणम् , वचसाऽऽचाम्लं, कायेन विकृतित्यागः । यदुक्तम्
एका भार्या सदा यस्य, त्रिधा शीलं घनागमे । नव्यपाणिग्रहे नियमश्चतुर्थव्रतपालने ॥ १ ॥ कियता कालेन भोपल्लदेवी परासुरजायत । तदनु द्वासप्ततिसामन्तमन्त्रिवर्गो विज्ञपयति, श्रीचौलुक्यकुलाधार ! प्रजावत्सल ! अनगृह्यतां पुनः पाणिग्रहमहोत्सवेन स्वसेवकजनः । राजा–अलममुना संसारवृद्धय पायेन पाणिग्रहाग्रहेण,
XXXXXXXXXXXXXX
॥१६९।।