________________
मया नीतोऽत्र सैन्यतः ॥ ८॥ श्रुत्वा तत्संभ्रमादभूभृद्यावत्तन्मुखमीक्षते । तावत्सुप्तोत्थितः सोऽपि, शकाधीशो विम१७३॥
ष्टवान् ॥ ९॥ क्व तत्स्थानं ? क्व तत्सैन्यं ? कथमिहागमः ? कोऽयं सिंहासनस्थो ध्यानी मुनीन्द्रः ? कोऽयं चैतदने समा
सीनो लीलाऽवहेलितेन्द्रो राजेन्द्रः ? इत्यादि चिन्तयन किं घ्यायसि शकेश ! दिशः पश्यन् ? इति सूरिराह-एकातपत्र* मैश्वर्यं, स्वस्य धर्मस्य च क्षितौ । कुर्वतो यस्य साहाय्यं, कुर्वन्ति त्रिदशा अपि ।। १० ।। गृहमध्याञ्चमूमध्यादपि यो रिपु
भूपतीन् । स्वशक्त्या दासवद्वद्ध्वा, समानाययति क्षणात् ।। ११ ।। सोऽयं श्रीचौलुक्यसिंहोऽपरराजकुञ्जरोजासी त्वामाया न्तमत्रोपरि ज्ञात्वा बद्ध्वाऽऽनीतवान् । साम्प्रतं त्रिभुवनशरण्यं स्वहितेहया देवैरप्यनुल्लङ्घनीयशक्ति शरणागतवज्रपञ्जरं शरणीकुरु । ततोऽजुतभयोद्वेगचिन्तालज्जादिव्यभिचारिचारुचेष्टितोऽव्यभिचारिभक्तियुक्तः सह दर्पण पल्यत त्यक्त्वा गर्जनेशः । सूरीन्द्रं प्रणम्य श्रीकुमारभूमीन्द्रं नमश्चक्रे ऊचे च हस्तावायोज्य-राजन् ! मया तवेदृग् देवतासाहाय्यं नाज्ञायि, अतः परं मया यावजीवं त्वया सह सन्धिरेव चक्रे । कुमारभूपः-हे शकाधीश! मच्छौण्डीर्यं द्विषन्तपं शृण्वन् किमिहागच्छनभूस्त्वम् ? । शकेन्द्रः प्राह-श्रीकुमारपालदेव ! सम्प्रति त्वं व्रतस्थैर्यनिर्जितध्रुवः पुराबहिर्नेष्यसि इति छलेन बलिनो
देशभङ्गं चिकीर्षुरागच्छन्नभूवं, परमीदृग्गुरौ जाग्रति त्वं कथं छल्यसे ? ।। पूर्वं श्रुतोऽपि ते वीर!, विक्रमो विश्रुतोऽES भवत् । विस्मरिष्यत्यसौ जातु, न सम्प्रतितमः पुनः ।। १२ ।। तुभ्यं स्वस्त्यस्तु, मां स्वाश्रयं प्रति प्रेषय मत्सैन्या मां विना
ऽऽकुला भविष्यन्तीति । राजर्षिः प्राह--यदि स्वपुरे षण्मासीममारिं कारयेस्तहि मुक्तिस्तव । ममेदमेवाज्ञाकरणं वाञ्छितं ||१७३।। च, यद्बलेन छलेनापि च प्राणित्राणकारापणम् । पुण्य तव भावि ।। इतो मे नान्यथा मुक्तिरिति ध्यात्वा शकप्रभुः ।