SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्धः ।१७४॥ XXXXXXXXXXXXXXXXXXXXXXX चौलुक्यवचनं मेने, बलिष्ठे का विचारणा ? ॥ १३ ।। ततः स्वसौधं तं नीत्वा, सत्कृत्य च सहस्रधा। अतिष्ठिपत्त्र्यहं भूपो, लोकज्ञापनकाम्यया ॥ १४ ।। जीवरक्षाकृते शिक्षा, दत्त्वाप्तांस्तत्समं निजान् । आदिश्य च शकेन्द्रं तं, स्वस्थानं प्रापयनृपः ॥ १५ ॥ गर्जने षण्मासां जीवरक्षां कारयित्वा नृपाप्ताः शकेन्द्रविसृष्टा भूरिहयाद्य प्राभृतं गृहीत्वा पत्तनमागत्य श्रीचौलुक्यमानन्दयामासुः ।। आगच्छन्तं शकाधीश, देशभङ्गविधित्सया । ज्ञात्वा साभिग्रहो राजा, नैति वर्षासु संमुखः ॥ १६ ॥ राज्ञो धर्म स्थिरीकर्तुं, बद्ध्वादा निन्येऽत्र सूरिणा । षण्मासी जीवरक्षायाः, पणे मुक्तः कृपालुना ।। १७ ।। सत्कृत्यानेकधा शाकिप्रभुं जीवदयाकृते । मुञ्चतस्तं रिपुं प्रौढमहो ! राज्ञो विवेकिता ।।१८।। ईदृग् जगद्गुरुः शक्तिभुक्तिमुक्तिप्रदायकः । ईदृग् दृढव्रतो राजा, श्राद्धः काले कलौ कुतः ।। १९ ॥ एवं नरेन्द्रैः सकलैर्मुनीन्द्ररपि स्तुतेरध्वनि नीयमानः । षष्ठं व्रतं कष्टशतेऽपि शुद्धमपालयद्भूमिपतिः कुमारः ।। २० ॥ - अथ भोगोपभोगपरिमाणवतेभोजनतः कर्मतश्च द्विविधे । तत्र भोजनतो मद्यमांसमधुम्रक्षणादिद्वाविंशत्यभक्ष्यद्वात्रिंशदनन्तकायादिनियमो महति कष्टे रोगादावप्यनाकारः । देवपूजावसरे देवाग्रतोऽढौकितफलपुष्पपत्रवस्त्वाहारादिवर्जनम् । सचित्तमेकं नागवल्लीपत्ररूपम् । दिवाऽष्ट बीटकानि । रात्रौ चतुर्विधाहारप्रत्याख्यानम् । वर्षासु घृतकविकृतिः । शाड्वलसर्वशाकनियमः । एकभक्तप्रत्याख्यान च सर्वदा तपःपारणोत्तरपारणे विना। दिवा ब्रह्मचारी । सर्वपर्वाब्रह्मसचित्तविकृतिवर्जकः । सर्वप्रकार - गोपभोगेषु निस्पृहोऽपि राजधर्मादिपारवश्यादेव परिमितमेव निष्पापं भोगोपभोगादिभुक् । श्रीचौ लुक्यराजर्षिः कदाचिद् ।।१७४॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy