________________
।१७५॥
घृतपूरभोजनौं कुर्वाणः किञ्चिद्विचिन्त्य कृताहारपरिहारः पवित्रीभूय शालायां गुरून्नत्वा पप्रच्छ, यदस्माकं घृतपूराहरो युज्यते न वा? इति । प्रभुभिरभिदधे-वणिगब्राह्मणयोर्युज्यते, कृताभक्ष्यनियमस्य तु क्षत्रियस्य न, तेन पिशिताहारस्यानुस्मरणं भवति । इत्थमेव ममापि, इत्युक्त्वा कथं प्रभुभिर्ज्ञायतें ? गुरुभिः-सर्वज्ञागमादेव ज्ञानं सम्यगित्युक्ते सञ्जातश्रीजिनागमबहुमानस्थैर्यसमग्रश्रीसङ्गसमक्षं घृतपुरा अतः परं मया नाहार्या इति नियमं लात्वा पूर्वभक्षिताभक्ष्यप्रायश्चित्तं प्रतिपद्य लोकानां ज्ञापनाय प्रायश्चित्तस्य द्वात्रिंशद्दन्तसंख्ययकस्मिन् भिडबन्धे द्वात्रिंशद्राजविहारान् कारयामास । गुरोरादेशतस्तेषु, द्वौ सितौ द्वौ शितिद्य ती। द्वौ रक्तौ द्वौ च नीलाङ्गो, षोडश स्वर्णरोचिषः ॥१॥ चतुर्विंशतिचैत्येषु, नाभेयप्रमुखान् जिनान् । चतुर्षु चतुरः सीमन्धरादीनुद्धृतेष्वथ ॥ २॥ रोहिणीं समवसृति, स्वगुरोः पादुकाद्वयीं । अशोकद्रुच विस्तीर्ण, स विधाप्य न्यवीविशत् ॥३॥ एवं घृतपूरादिसरसाहारनियमी कर्मतः पञ्चदशकर्मादानेभ्योऽङ्गारवनशकटादिरूपेभ्यः समागच्छदायपदनिषेधकस्तत्पट्टकान् पाटयामास ॥ एवं भोगोपभोगेषु विरक्तः परमार्हतः । निस्पृहः पापवित्तेषु, सप्तमव्रतमग्रहीत् ।।१।।
अष्टमव्रतेऽनर्थदण्डविरमणेचतुर्धाऽनर्थदण्डः तद्यथा-अपध्यान १ पापोपदेश २ हिंस्रप्रदान ३ प्रमादाचरणानि ४, एतानि चाचरतो मुधा पापवृद्धिरिति न सेव्यानि विवेकिनेति ज्ञात्वा सप्तव्यसननिषेधं सर्वत्र कारितवान् । स्वयं प्रमादक्रीडाहास्योपचारदेहातिसंस्कारविकथाकरणादिविवर्जनपरो जाग्रद्धर्मध्यानामृताम्बुधिमग्न एवाजनि श्रीकुमारभूजानिः ।।
||१७५।।