SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ मारपाल | १७६ ।। सप्तव्यसनवित्रासी, दुर्ध्यानाविषयस्थितिः । राजर्षरत्यजत्सर्वानर्थदण्डमदण्डकृत् ॥ १ ॥ नवमं सामायिकव्रतं तावद्ययोगपरिवर्जनं निरवद्ययोगासेवनम् । तस्मिन् व्रते राज्ञो द्विः सामायिककरणं नियमेन कृते च सामायिके मौनमेव श्रीगुरुन् विनाऽन्यैः सह । पाश्चात्य रात्रिसामायिके द्वादशप्रकाश योगशास्त्रविशतिवीतरागस्तवगुणनं विना नापरकार्यकरणम् । सामायिकं प्रतिलेखित वस्त्रप्रमार्जित देशप्रोञ्छनादिशुद्धसामाचारीपूर्वकमेव न यथा तथा ।। इतो रागमहाम्भोधिरितो द्वेषदवानलः । यस्तयोर्मध्यमः पन्थास्तत्साम्यमिति गीयते ।। १ ।। एवं साम्यसुधास्वादसुहितात्मा महीपतिः । सामायिकपरो जज्ञे, संलीनकरणस्थितिः ॥ २ ॥ दिग्वतगृहीतदिग्परिमाणस्य प्रतिदिनं परिमाणकरणं देशावकाशिकव्रतम् — तत्र श्रीपरमार्हतस्य रात्रौ स्वगृहान्तरेऽवस्थितिः न बहिर्गमनम् । दिवाऽपि प्रायः श्रीजिनालयशालागमनं विना राजपाटघादिभ्रमणनिषेधः । जन्तुजातदयोल्लासी, मितक्षेत्रकृतस्थितिः । संलीनात्मा कृपानाथो, दशमव्रतमादधौ ॥१॥ एकादशव्रते आहारशरीरसत्कारब्रह्मचर्य अव्यापाररूपचतुविधपौषधोपवासरूपे - एतस्मिन् पालिते एकादशव्रतानि सम्यक् पालितानि भवन्ति । सर्वपापाश्रवनिरोधहेतुरेतद्व्रतं महाफलं चेति विभाव्य राज्ञः पर्वसु पौषधग्रहणम् । नियमेन गृहीते च पौषधे क्षपणम् । रात्रौ शयननियमः । गुरूणां विश्रामणा । अप्रमार्जनचङ्क्रमणोद्धाटमुखभाषणादिनिषेधः । प्रायो रात्री कायोत्सर्गः । तदशक्तौ दर्भासनस्थः प्राणायामप्रणयी ॥ नेत्रद्वन्द्वे श्रवणयुगले नासिकाऽग्रे ललाटे, वक्त्रे नाभौ शिरसि हृदये तालुनि भ्रूयुगान्ते । प्रबन्धः । ।। १७६ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy