Book Title: Kumarpal Prabandh
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
कुमारपाल
प्रबन्धः
।१७४॥
XXXXXXXXXXXXXXXXXXXXXXX
चौलुक्यवचनं मेने, बलिष्ठे का विचारणा ? ॥ १३ ।। ततः स्वसौधं तं नीत्वा, सत्कृत्य च सहस्रधा। अतिष्ठिपत्त्र्यहं भूपो, लोकज्ञापनकाम्यया ॥ १४ ।। जीवरक्षाकृते शिक्षा, दत्त्वाप्तांस्तत्समं निजान् । आदिश्य च शकेन्द्रं तं, स्वस्थानं प्रापयनृपः ॥ १५ ॥ गर्जने षण्मासां जीवरक्षां कारयित्वा नृपाप्ताः शकेन्द्रविसृष्टा भूरिहयाद्य प्राभृतं गृहीत्वा पत्तनमागत्य श्रीचौलुक्यमानन्दयामासुः ।। आगच्छन्तं शकाधीश, देशभङ्गविधित्सया । ज्ञात्वा साभिग्रहो राजा, नैति वर्षासु संमुखः ॥ १६ ॥ राज्ञो धर्म स्थिरीकर्तुं, बद्ध्वादा निन्येऽत्र सूरिणा । षण्मासी जीवरक्षायाः, पणे मुक्तः कृपालुना ।। १७ ।। सत्कृत्यानेकधा शाकिप्रभुं जीवदयाकृते । मुञ्चतस्तं रिपुं प्रौढमहो ! राज्ञो विवेकिता ।।१८।। ईदृग् जगद्गुरुः शक्तिभुक्तिमुक्तिप्रदायकः । ईदृग् दृढव्रतो राजा, श्राद्धः काले कलौ कुतः ।। १९ ॥ एवं नरेन्द्रैः सकलैर्मुनीन्द्ररपि स्तुतेरध्वनि नीयमानः । षष्ठं व्रतं कष्टशतेऽपि शुद्धमपालयद्भूमिपतिः कुमारः ।। २० ॥
- अथ भोगोपभोगपरिमाणवतेभोजनतः कर्मतश्च द्विविधे । तत्र भोजनतो मद्यमांसमधुम्रक्षणादिद्वाविंशत्यभक्ष्यद्वात्रिंशदनन्तकायादिनियमो महति कष्टे रोगादावप्यनाकारः । देवपूजावसरे देवाग्रतोऽढौकितफलपुष्पपत्रवस्त्वाहारादिवर्जनम् । सचित्तमेकं नागवल्लीपत्ररूपम् । दिवाऽष्ट बीटकानि । रात्रौ चतुर्विधाहारप्रत्याख्यानम् । वर्षासु घृतकविकृतिः । शाड्वलसर्वशाकनियमः । एकभक्तप्रत्याख्यान च सर्वदा तपःपारणोत्तरपारणे विना। दिवा ब्रह्मचारी । सर्वपर्वाब्रह्मसचित्तविकृतिवर्जकः । सर्वप्रकार - गोपभोगेषु निस्पृहोऽपि राजधर्मादिपारवश्यादेव परिमितमेव निष्पापं भोगोपभोगादिभुक् । श्रीचौ लुक्यराजर्षिः कदाचिद्
।।१७४॥

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238