________________
१२.
कारकपरीक्षा
(कारकं ) सम्प्रदानम् (पा०) (“ कमाऽभिप्रेयः सम्प्रदानम् ।" सि० हे०')। (अस्याऽयमर्थः १-कर्मणा करणभूतेन का यमर्थमभिप्रेति तत्सम्प्रदानम् ।) तच्च २ त्रिविधम् । (प्रेरकम् , ३ अनुमन्तृकम् , अनिराकर्तृकं च । तत्र ) प्रेरकं यथा-ब्रह्मणाय गां ददाति । स (ब्राह्मणो ४) हि पूर्व मह्यं (गां ५) देहीति प्रेरयतीति ६ (स ७) तेन (प्रेरितो ८) ददाति । अनुमन्तृ( कं ९) यथाउपाध्यायाय गां ददाति । उपाध्यायो हि न पूर्व गां प्रार्थितवान् । अथ (च १०) दीयमानां ११ गामनुमन्यते-' भद्रं कृतमि' ति । अनिराकत (कं १२) यथा-देवाय १३ बलिं दत्ते । नाऽत्र देवः १४ प्रार्थयते नाऽप्यनुमन्यते । य १५ दुक्तम् ---
त्यागाझं १६ कर्मणा व्याप्तं प्रेरकं चाऽनुमन्तृ च १७ । अनिराकर्तृ चेत्युक्तं सम्प्रदानं त्रिधा १८ पुनः ॥ १ ॥
अन्वर्थसंज्ञाविज्ञानात् सम्यक् प्रकर्षेण दीयते यस्मै तत् सम्प्रदानम् । (तदेदमसमञ्जसम् ,१९ दानाऽसम्भवात् ।) तथाहि
१ () एतदन्तर्गतः पाठः क. नास्ति । २ 'तत्त्रेधा' ग. ३ ()) एतदन्तर्गतः पाठो ग० नास्ति। ४ क० नास्ति । ५ क० नास्ति । ६ 'ति' क. । ७ क० नास्ति । ८ क. नास्ति । ९ ग. नास्ति । १० क० नास्ति । ११ 'नगा' ग० । १२ ग० नास्ति । १३ 'आदित्याय पुष्पं ददाति' क० । १४ 'आदित्यः, क० । १५ 'त' क०। १६ ‘त्यागकर्मण्यभिव्याप्य' क० । १७ 'पा' क०। १८ 'प्रकीर्तितम् ' क०। १९ () एतदन्तर्गत पाठः क० नास्ति ।