Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
२१.
कारकव्याश्रयकाध्यम्
कर्मभूतस्य दुरात्मभिः दुर्दुष्टो द्रोहादिसङ्गतत्वादात्माऽन्तःकरणं येषां लैस्तादृशै र्दुर्जनैः कर्तमि मित्रस्य सख्युः कर्मभूतस्येव त्यागोऽपनयनम् अभूदिति शेषः । यथा दुरात्मानो मित्राणि त्यजन्ति तथा मृगाः शृङ्गाणि तत्यजुरित्यर्थः । तथा, उक्ष्णां बलीवदानां कर्तृणां रोधसस्तटस्य कर्मभूतस्य बिभित्सा भेत्तुमिच्छा भेदिका विलेखनं च पयसां जलानां वर्षौं दृष्टजलोच्छलितनदीपूराणां रोधसो बिभित्सा भेदिकेव च, अभूदिति शेषः । शरदि मृगाः शृङ्गाणि पातयन्ति, वृषभाश्च पुष्टा मदाद वप्रक्रीडायां तटानि भिन्दन्ति )) ८२ ))
स्तुत्यमान्याऽनुयानीयगातव्याऽऽदेयसद्गुणः । नृणां १ देवश्च २ स तदा राजा यात्रां प्रचक्रमे ॥ ८३॥
स्तुत्येत्यादि । तदा तादृशे शरत्काले विजृम्भमाणे स प्रस्तुतो नृणां जनानां कर्तृणां देवैः सुरैः कर्तृभिश्च स्तुत्यमान्याऽनुयानीयगातव्याऽऽदेयसद्गुणः स्तुत्याः प्रशस्या मान्याः पूजनीया अनुयानीयाः अनुसरणीया गातव्याः सुस्वरं कीर्तनीया आदेया ग्राह्याश्च सन्त उत्तमा गुणाः शौर्योदायर्यादयोऽतिशया यस्य स तादृशो राजा मूलराजाख्यो नृपो यात्रां ग्राहरिपुं प्रति प्रयाणकं प्रचक्रमे प्रारब्धवान् । शरत्कालस्य प्रयाणोचितत्वादिति भावः ॥ ८३ ॥
१-२ कृत्यान्तयोगे कर्तरि वा षष्ठति यथायथं पष्ठी तृतीया

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246