Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
२९८
कारकह्याश्रयकाव्यम्
आस्ते तच्छिष्यरत्नं निजविशदवचः सर्जनैर्भव्यसङ्घस्वान्तप्रीतिप्रकर्षोपनयनपटुतोपार्जितोच्चैः समज्ञः । पन्यासक्षीऽमृतांशुर्गणिविबुधवनी कल्पवृक्षर्द्धिधन्यः श्रीमान् सारैश्चरित्रैः कविकुलतिलकः सो यशोभद्रनामा ॥ ३ ॥
शिष्येष्वन्यतमस्तस्य प्रसादाल्लब्धसन्मतिः । शुभङ्करो गणिरहं पन्यासपदभागपि कृता कारकमालाया मया सूर्योदयाऽर्थनात् । भद्रकरोदयाख्येयं व्याख्या लोकोपकारिणी
ज्ञानतः कारकस्य स्यात्तथा स्याद्व्यवहारतः । लाभो जिज्ञासुवृन्दस्य सफलो मेऽत्र तच्छ्रमः अश्वचन्द्रानयने वैक्रमाब्दे समापिता । बेंगलोरुपुरे सेयं तपः पूर्णा कुजे कृतिः
॥ श्रीरस्तु । शुभं भवतु ॥
|| 8 ||
114 11
॥ ६ ॥
॥ ७ ॥

Page Navigation
1 ... 243 244 245 246