Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
कारकद्याश्रयकाव्यम्
अथ दूरेऽपि १ लोकस्यान्तिके २ नु तेजसा ज्वलन् । न दरा ३ च्छ्यसां सिंहासनमध्यास्त भूपतिः ।। १०९ ।। इतिकलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितसिद्धहेमशब्दानुशासनब्याश्रयमहाकाव्यद्वितीयतृतीयसर्गत उद्धृत्य
सगृहीतः कारकड्याश्रयः समाप्तः । अथेत्यादि । अथ सैन्यसज्जाद्यनन्तरम् , तेजसा प्रतापेन कान्त्या च ज्वलन प्रभावोत्पादकतया विराजमानः, अत एव, लोकस्य पुरजनस्य प्रजानां च दूरेऽपि सचिवसामन्तादिभिः परिवृतत्वात्सामान्यजनानां निकटस्थित्यभावात् किञ्चिदूरेऽपि स्थितः अन्तिके नु समीपस्थ इव लक्ष्यमाणः, अपिना दूरस्थस्य समीपस्थत्वेन लक्ष्यता विरुद्धति सूच्यते। समीपस्थतया लक्ष्यत्वे हेतुश्च तेजस्वित्वमित्यविरोधः । तेजस्वी हि सूर्यादिरतिदूरस्थोऽपि न तथा दूरस्थो लक्ष्यते इति प्रतीतम् । भूपति मूलराजनृपः, श्रेयसां रचितानां स्वस्तिकादिमाङ्गलिक्यानां श्रेयःसाधनानां न दुरादारास्थितं सिंहासनं राजासनम् अध्यास्ताऽधितष्ठौ । यद्वा श्रेयसां मङ्गलानां च न दूरादाराद्वर्तमानो भूपतिः सिंहासनमध्यास्तेत्यन्वयः ॥ १०९॥
इति कारकच्याश्रयकाव्ये श्रीतपोगच्छाधिपति-शासनसम्राट्--
१-२-३ असत्त्वे आरादर्थकदूराऽन्तिकशब्दाभ्यां यथायथं सप्तमी पञ्चम्योरेकवचनम् ॥ १०९ ॥

Page Navigation
1 ... 241 242 243 244 245 246