Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रङ्करोदयाख्यव्याख्यासहितम्
त्तात् प्रीतिबहुमानहेतोः, मुदि कारणे हर्षनिमित्तं च यत् , नरेन्द्रदर्शनस्य नरेन्द्रस्य राज्ञो मूलराजस्य दर्शनमवलोकनं तस्याऽर्थस्य हेतोः को जनस्तदा यात्राकाले उत्सुक आतुरो नाऽभूत् । काक्वा स्नेहाद् भक्ते हर्षलाभाच्च सर्व एव नरेन्द्रदर्शनोत्सुकोऽभूदित्यर्थः ॥ १०६ ॥ यो १ हेतु वाजिनां हेषा यं २ हेतुं दन्तिनां मदः। हेतुनोक्ष्णां ध्वनियना ३ ऽर्थाय यस्मै ४ भटोद्यमः ॥१०७॥ सोच्छ्वासा भूर्यतो ५ हेतो यस्य ४ हेतोः सुखो मरुत् । तत्र ७ हेतौ न दूरेण ८ राज्ञोभावी जयो महान् ॥१०८॥ (युग्मम्)
यो हेतुरित्यादि । यो हेतुर्येन हेतुना वाजिनामश्वानां हेषा रवः, यं हेतुं येन हेतुना दन्तिनां गजानां मदो दानजलोद्मः, येन हेतुना उक्ष्णां वृषभाणां ध्वनि निनादः, यस्मै अर्थाय येन हेतुना भटोद्यमः भटानां योधानामुद्यमः सोत्साहं प्रवृत्तिः, यतोहेतोः भूर्भूमिः सोच्छ्वासा उच्छ्वासेन वैशयेन हर्षव्यापारेण च सहिता मनोज्ञदर्शना वा, यस्य हेतो फैन हेतुना मरुत्पवनः सुखः सुखस्पर्शः, तत्र हेतौ तेन हेतुना राज्ञो नृपस्य नृपाद्वा महान् सर्वशत्रूच्छेदादसदृशो जयो विजयः न दूरेण आरादेव भावी भविष्यति । अश्वादीनां हेषादिना शुभशकुनेन हेतुना प्रस्थानकार्यस्य विजयस्य आरादेव सिद्धिः सूचितेत्यर्थः ॥ १०७ ॥ १०८ ॥
१-२-३-४-५-६-७ हेतुसामानाधिकरण्ये सर्वादेः सर्वा विभक्तयः। ८ असत्त्वे आरादर्थकदूरशब्दातृतीयैकवचनम् ।

Page Navigation
1 ... 240 241 242 243 244 245 246