Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
२३४
कारकद्याश्रयकाव्यम्
श्रिया लक्ष्म्या च तुल्याः सदृश्यः स्त्रियो मङ्गलविधौ राजकुले समागता महेभ्यकुलाङ्गना अङ्गरागेण विलेपनेन कौसुम्भं कुसुम्भरक्तवस्त्रं भूषणात्स्वर्णाद्यलङ्काराच्च विना रहिता नाऽऽसन् नाऽभूवन् । माङ्गलिकविधौ हि सधवाः स्त्रियः सुवेषा एव क्रियासु व्यापृता भवन्ति ॥ १०४ ॥
दत्ताः प्रासादं १ पूर्वेण गोपुरस्या २ ऽपरेण च । प्राक्प्रयाणा ३ दुत्सवेन हेतुना कुङ्कुमच्छटाः ॥ १०५ ॥
दत्ता इत्यादि । प्रयाणाद् विजयप्रस्थानात् प्रापूर्वकाल एव उत्सवेन हेतुना उत्सवार्थ प्रासादं राजगृहं पूर्वेण पूर्वदिशि गोपुरस्य पुरद्वारस्य अपरेण पश्चिमदिशि च कुङ्कुमच्छटाः घुसृणमिश्राम्बुसेकाः दत्ता विहिताः । राजप्रासादस्य पूर्वाऽभिमुखत्वाद् राजप्रासादद्वारादारभ्य गोपुरं यावत्कुङ्कुमाम्बुसेकः कृत इत्यर्थः । उत्सवे मार्गे कुङ्कुमाम्बुसेको विधीयते ॥ १०५ ॥
स्नेहाय १ हेतवे भक्ते २ निमित्तान्मुदि ३ कारणे । नरेन्द्रदर्शनस्या ४ र्थस्योत्सुकोऽभून्न कस्तदा ॥१०६ ॥ स्नेहायेत्यादि । स्नेहाय हेतवे प्रेमात्मकहेतोः, भक्ते निमि
१-२ एनन्तयोगे यथायथं द्वितीया षष्ठी च । ३ एनन्तत्वेऽप्यञ्चत्यन्तत्वाद् द्वितीयाद्यभावाद् दिग्योगे पञ्चमी । ४ हेत्वर्थे तृतीया ॥ १०५
{-२-३-४ हेत्वर्थे पञ्चमी सप्तमी षष्ठी च ॥ १०६ ॥

Page Navigation
1 ... 239 240 241 242 243 244 245 246