Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
२१२
कारकड्याश्रयकाव्यम्
व्यते । योधानां बलवत्त्वाद्वेधगौरवादिति भावः । तादृशाः, उ एवास्त्रिभ्योऽस्त्रधारिभ्यो धनुर्धरेभ्यो वराः श्रेष्ठा योधा भटा रे स्वकौशलप्रदर्शनाऽवसरप्राप्त्योत्साहात् तेजस्विनो भान्ति स्म ॥१०१
संघट्टशीणस्त्रीहारैमुक्तानां राजवेश्मनि । खार्याः १ खार्यो २ रप्यधिको द्रोणोऽर्धन ३ तदाऽभवत् ॥ १०२॥
संघट्टेत्यादि । तदा विजयप्रयाणकाले राजवेश्मनि राज कुले संघदृशीर्णस्त्रीहारैः संघट्टेन माङ्गलिकलाजादिक्षेपार्थमहंपूर्विकय प्रवर्त्तमानानां स्त्रीणां परस्परं सम्मर्दैन शीणीनां त्रुटितानां स्त्रीण हारैर्मुक्तास्रम्भिंनि मित्तैः मुक्तानां मौक्तिकानाम् अर्धेन आढकद्वये अधिकोऽधिरूढो द्रोण आढकचतुष्टयम् खार्या द्रोणचतुष्टयात् खार्यो खारीयुगे, अपिर्वाऽर्थे । अधिकोऽभवत्समपद्यत । यात्राप्रसङ्गे लाजा क्षेपाद्यर्थ तावन्त्यो धनाढ्यस्त्रियः समागताः, येनाऽहमहमिकया प्रवर्त मानानां तासां संघटेन मुक्ताहारास्त्रुटिताः। ततो विकीर्णाश्च मुक्ता सार्धद्रोणाऽधिका खारी खारीद्वयं वा समपद्यतेत्यर्थः ।। १०२ ।।
१-२ अधिकयोगेऽधिकिनि पञ्चभीसप्तम्यौ । ३ अधिकयोगेऽल्पीयसस्तृतीया ॥ १०२ ॥

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246