Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रकरोदयाख्यव्याख्यासहितम्
२२१
___ पौर्य इत्यादि । बालेषु शिशुषु रुदत्सु रोदनं कुर्वत्सु, मातुः पार्श्वेऽभावादिति बोध्यम् । गृहकर्मणां गृहस्य गृहस्थजनोपयोगित्वाद् गृहसम्बन्धिनां कर्मणां पाकादिव्यापाराणां सीदतां समाकुलप्रवृत्तीनाम् , पक्त्रादेरभावादिति बोध्यम् । रुदतो बालान् सीदन्ति गृहकर्माणि चाऽनाहत्येत्यर्थः । एतेनाऽत्यौत्सुक्यं व्यज्यते । पौर्यः पुरस्त्रियः नाकिनां देवानां मध्ये इन्द्रं देवेन्द्रमिव नृषु जनेषु श्रेष्ठं रूपबलैश्वर्यादिगुणैरुत्कृष्टं नृपं राजानं मूलराजं द्रष्टुमेयुराजग्मुः । सर्वो हि श्रेष्ठं द्रष्टुं कुतुकीभवति ॥ १० ॥
तदाऽस्त्रिभ्यो' वरा योधा रेजुर्यैः स्थानकस्थितैः । विद्धः क्रोशात् २ क्रोशयो ३ वी नियेत क्षणयोः ४ क्षणात् ५ ॥१०१॥.
तदेत्यादि । तदा विजययात्राप्रसङ्गे, यैयाशैर्योधैः स्थानकस्थितः स्थानकानि योधानां लक्ष्यवेधादिकाले आसनविशेषा वीराऽऽलीढाद्याख्यास्तैः कृत्वा स्थितैरवस्थितैः, वीरासनादिकमधिश्रितैः सद्भिः कोशात्क्रोशपरिमितदूरदेशात्क्रोशयोः क्रोशयुगपरिमितदेशतो वा विद्धो वेधमापितो लक्ष्यः प्राणी क्षणयोः द्वयोः क्षणयोः क्षणाद् एकस्मादेव क्षणाद्वा, अत्यल्पकालादित्यर्थः । म्रियेत प्राणान् त्यजेद् इति सम्भा
१ निर्धारणे पञ्चम्यपीति मते पञ्चमी । २-३-४-५ क्रिययोर्मध्येऽ. ध्वकालयो यथायथं पञ्चमी सप्तमी च ॥ १०१॥
29

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246