Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 237
________________ २२० कारकध्याश्रयकाव्यम् वादनं च क्रमेण भवेद् । नृपो भटाश्च यात्रोद्यताः स्तावकेभ्यो भट्टेभ्यो यशसे द्रव्यं द्विजेभ्यश्च शुभार्थ द्रव्यं वितरन्ति ॥ ९८ ॥ ग्रामो यो.योजना १ न्यष्टौ योजनेषु २ दशस्वितः । पर्ने वाऽह्नि ३ त्रयोदश्या यात्रां द्रष्टुं स आययौ ॥ ९९ ॥ ___ ग्राम इत्यादि । त्रयोदश्या स्तदाख्यतिथेः सकाशाद् अह्नि एकस्मिदिने चतुर्दशीतिथ्यात्मके गते पर्व पूर्णिमातिथिरिव । यथा त्रयोदश्या एकस्मिन् दिने गते पूर्णिमा भवेत्तथेत्यर्थः । इतः पत्तनाद् यो यादृशो ग्रामस्तात्थ्यात्ताच्छब्दद्याद् ग्रामस्थो जन इत्यर्थः । अष्टौ अष्टसङ्ख्याकानि योजनानि, अष्टसु योजनेषु गतेष्वित्यर्थः । दशसु दशसङ्ख्याकेषु योजनेषु वा, स तादृशो लोकः, अपिरर्थबलाद् गम्यते । तेन तदभ्यन्तरस्य तु कथैव केति सूच्यते । यात्रां विजयप्रस्थानं द्रष्टुम् आययौ आजगाम । विजययात्राप्रसङ्गेऽद्भुतनानोत्सवसद्भावात्तद्रष्टुं दूरस्थोऽपि जनः कुतूहलादागच्छति ॥ १९॥ पौर्यो रुदत्सु १ बालेषु सीदतां २ गृहकर्मणाम् । एयु द्रष्टुं नृपं श्रेष्ठं नृष्विन्द्रमिव ३ नाकिनाम् ४ ॥१०॥ १-२ गते गम्ये भावलक्षणेऽध्वन ऐकायें वेति प्रथमा पक्षे सप्तमी । ३ अत्र नैकार्यमिति मावलक्षणे नित्यं सप्तमी ॥ ९९ ॥ १-२ अनादरे गम्ये वा षष्ठी पक्षे सप्तमीति यथायथं पछी मावलक्षणे सप्तमी । ३-४ निर्धारणे षष्ठी सप्तमी चेति ॥ १० ॥

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246