Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 235
________________ २१० कारकव्याश्रयकाव्यम् अस्य नृपस्य तु भृत्योऽत्यन्तं स्वामिभक्त इति स्वसौविध्यमविचार्यैव नृपसौविध्यविधित्सया कुशलान् स्वामिभक्तानेव च राज्ञः पुरो व्यधादित्याशयः ॥ ९५ ॥ १ हसन्तो निपुणान् मातुः पितुः २ साधूंश्च शस्त्रिणः । प्रतीशं निपुणास्तस्थुः श्रेण्या द्वारेऽङ्गरक्षकाः ।। ९६॥ ફ્ हसन्त इत्यादि । ईशं स्वामिनं मूलराजं प्रति निपुणाः कुशलाः, साधव इत्यर्थः । स्वामिरक्षादक्षा इति यावत् । अङ्गरक्षकाः नृपशरीररक्षानियुक्ता भटा मातुः निपुणान् मात्रैव न त्वन्येनाऽि निपुणो मे पुत्र इत्येवं मन्यमानान् पितुः साधूंश्च पित्रैव साधु पुत्र इत्येवं मन्यमानांश्च वस्तुतोऽयोग्या एवेमे भटा इति हसन्तो विरूपहा - सेनाऽवजानन्तो द्वारे द्वारि श्रेण्या पङ्क्त्या, पङ्क्तिबद्धो भूत्वेत्यर्थः । तस्थुः स्थिताः । राज्ञोऽङ्गरक्षार्थमिति बोध्यम् ॥ ९६ ॥ भृत्यानामधि चौलुक्ये १ ऽध्यद्रिषु २ क्ष्माभुजां बलम् । उपखायामिव ३ द्रोणो मिलत्यागाद्वले ४ ऽधिकम् ॥९७॥ भृत्यानामित्यादि । चौलुक्ये चौलुक्याऽन्ववाये ईशितव्ये १ - २ - ३ साधुनिपुणशब्द योगेऽप्यचऽभावात्प्रतिशब्दयोगाच्च न समी ॥ ९६ ॥ १ - २ अधियोगे ईशे ईशितव्ये च सप्तमी । ३ उपयोगेऽधिकनि समी । ४ भावलक्षणे सप्तमी ॥ ९७ ॥

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246