Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 233
________________ कारकन्याश्रयकाव्यम् रथसेनापतयः पदातिसेनापतयश्चेत्यर्थः । चतुरङ्गसैन्यनायका इति समुदितार्थः । लक्ष्म्यां राजलक्ष्म्याः क्षिते भूमेश्वाऽधिपतेः स्वामिनः राज्ञो मूलराजस्येत्यर्थः । द्वारं सिंहद्वारं सद्यस्तत्कालमेव, एतेन सैन्यानामुत्साहो दक्षता च सूच्यते । सिषेविरे सम्प्राप्ताः । सज्जाः सन्त इति शेषः । विजययात्रार्थमिति बोध्यम् ॥ ९२ ॥ प्रतिभूभिः श्रियः १ की २ धर्मे ३ नीतेश्च ४ साक्षिभिः । शुक्रे ५ गुरोः ६ प्रसूतै र्नु दायादै न्वायि मन्त्रिभिः ॥९३॥ प्रतिभूभिरित्यादि। श्रियो लक्ष्म्याः कीर्ती यशसश्च प्रतिभूभिलग्नकैः, तत्र हेतुद्वारेण विशेषणमाह-धर्म धर्मस्य राजधर्मस्य प्रजा. धर्मस्य च नीते राजनीते लॊकनीतेश्च साक्षिभि ईष्ट्रभिः, धर्मिष्ठैनीतिज्ञैश्चेत्यर्थः । अत एव श्रीकीर्तिभिः समन्वितैस्तत्प्रदेश्चेति भावः । अत एव, शुक्रे शुक्राचार्यस्य दैत्यगुरो गुरो बृहस्पतेश्च देवगुरोः प्रसूतै रपत्यै विव दायादैः सगोत्रिभिरिवोपलक्षितै मन्त्रिभिः सचिवैरायि आयातम् । नृपान्तिकमिति शेषः ॥ ९३ ॥ ज्योतिष १ ऽधीतिनो जन्म च्छायायां २ शकुमादधुः । द्विष्य ३ साधु नृपे साधु लग्नं साधयितुं क्षणात् ॥ ९४ ॥ १-२-३-४-५-६ प्रतिभूसाक्षिप्रसूतदायादशब्दयोगे वा सप्तमीति यथायथं शेष षष्ठी सप्तमी च ॥ ९३ ॥ १ तेनन्तव्याप्यात्सप्तमी । २ तयुक्त हेतौ सप्तमी । ३-४ असाधुसाधुशन्दाभ्यां योगे सप्तमी ॥ ९४ ॥

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246