________________
भद्रकरोदयाख्यव्याख्यासहितम्
नाक्षतै १ चन्दनान्नाना २ न दध्नो ३ दुर्वया ४ पृथक् । न पुष्पेभ्यः ५ फलं ६ वर्ते पात्राणि दधिरेऽङ्गनाः ॥ १०३ ॥
_२२३
नाऽक्षतैरित्यादि । अङ्गनाः यात्राप्रसङ्गे राजकुले समागता महेभ्यादिस्त्रियः, पात्राणि स्थालादिभाजनानि, अक्षतैरखण्डतण्डुलैचन्दनान्मलयजद्रवान्नाना रिक्तानि न नैव दधिरे हस्ते धारयामासुः, तथा दध्नः, दूर्वया तृणविशेषेण पृथग् रिक्तानि न दधिरे, तथा पुष्पेभ्यः फलं वा ऋते विना न दधिरे । मङ्गलार्थ स्त्रियो राजकुलादिषु अक्षतचन्दनदधिदूर्वापुष्पफलपूर्णानि पात्राणि नयन्ती - त्याचारः ॥ १०३ ॥
नाssसन् विनाऽङ्गरागेण कौसुम्भं २ भूषणात् ३ स्त्रियः । तुल्या रतेः ४ श्रिया : चेन्दोः ६ पद्मेन च समै मुखैः ॥ १०४॥
७
नाऽऽसन्नित्यादि । इन्दोश्चन्द्रस्य पद्मेन कमलेन च आह्लादकत्वादारक्तत्वाच्च समैस्तुल्यैः मुखै र्वदनैः कृत्वा रतेः कामप्रियायाः
१-२-३-४-५-६ नान | पृथगृतेशब्दयोगे यथायथं तृतीयापञ्चम्यौ ॥१०३॥ १ - २ - ३ विनायोगे यथायथ तृतीया द्वितीया पञ्चमी च ।
४
५-६-७ तुल्यार्थ कैर्योगे यथायथं पष्ठी तृतीया च ॥ १०४ ॥