Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रङ्करोदयाख्यधारख्यासहितम् ।
-
अधि ईशस्य, चौलुक्यवंशाऽधिपस्य मूलराजस्येत्यर्थः । भृत्यानां भृत्यवदाज्ञावशंवदानाम् , अद्रिषु ईशितव्येषु अधि ईशानां पर्वतफ्तीनां क्ष्माभुजां महीभुजां बलं सैन्यं बले सैन्ये, अर्थान्मूलराजस्येति गम्यते । मिलत्येकत्रिते भवति सति, उप अधिकिन्यां खाँ षोडशद्रोणपरिमाणायां चितौ द्रोण आढकचतुष्टयमिव अधिकमुपरिष्टात् आगात् प्राप्तम् । मूलराजस्य एकत्रिते सैन्ये पर्वतपत्यादिसैन्यं महदपि खायर्या द्रोण इवाऽधिकं जातमित्याशयः । एतेन मूलराजसैन्यं द्रोणात्खारीवाऽतिमहदिति वन्यते ॥ ९७ ॥
वेणौ ? ध्वनति भेर्यास्त भेया २ वेणुरपि क्षणात् । आसीनेषु द्विजेष्वापुः ३ स्वं सूता एषु च द्विजाः ॥९८॥
वेणाविति । वेणौ वंशवाद्योपलक्षिते प्रेक्षणके वेणों ध्वनति शब्दायमाने सति, सताललयं वेणौ वाद्यमाने सतीत्यर्थः । मेरी यात्राढक्का आस्त निःशब्दं स्थिता,ढक्कावादनं वारितमित्यर्थः । अन्यथा ढक्कानादस्याऽतितारतया प्रेक्षणकविघ्नः स्यादिति भावः । तथा भेया वनन्त्यां सत्यां क्षणात्सद्य एव वेणुवंशोऽप्यास्त, निरर्थकत्वादिति बोध्यम् । एवं द्विजेषु ब्राह्मणेषु आसीनेषु दानमलभमानेषु स्थितेषु सूता भट्टाः स्वं धनमापुःप्रापुः, तथा एषु भट्टेषु आसीनेषु च द्विजा द्रव्यमापुः । विजययात्राकाले हि उत्सवार्थ प्रेक्षणकं ढक्कादितूर्य
२-३ क्रियाऽर्हाणां कारकत्वे. तद्वैपरीत्ये च मावलक्षणे सप्तमी । १-४ क्रियाऽनर्णािमकारकत्वे तद्वैपरीत्ये च भावलक्षणे सप्तमी ॥ १८ ॥

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246