Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 232
________________ मद्रङ्करोदयाख्यव्याख्यासहितम् द्विना ब्राह्मणास्तत्र सिंहासनसमीपे एयुरागताः, शान्तिकार्थमिति भावः ॥ ९० ॥ सौवस्तिकैः सन्मुहूर्त आयुक्तैस्तपसः १ श्रुते २ । मन्त्रे ३ शान्तेश्च ४ कुशलै चक्रे हस्त्यश्वपूजनम् ॥ ९१ ॥ सौवस्तिकैरित्यादि । तपसस्तपश्चरणे श्रुते वेदादिशास्त्रे, समु. चयो गम्यते । आयुक्तैस्तत्परैः, तपोज्ञानपरायणैरित्यर्थः । नैष्ठिकैज्ञानिभिश्चेति यावत् । मन्त्रे मन्त्रप्रयोगविषये शान्तेः शान्तिकविधौ च कुशलैनिपुणैः सौवस्तिकै मङ्गलकर्मज्ञैः सन्मुहूर्ते सति शुभे मुहूर्ते काले हस्त्यश्वपूजनं सविधि हस्तीनामश्वानां च पूजनं चक्रे । विजययात्राप्रसङ्गे मङ्गलार्थ हस्त्यादयः पूज्यन्ते ॥ ९१ ॥ स्वामिनोऽश्वे १ विमानां २ चाऽनसां ३ पत्तिषु ४ चेश्वराः । लक्ष्म्यां ५ क्षिते ६ श्वाऽधिपतेः सद्यो द्वारं सिषेविरे ॥९२॥ स्वामिन इत्यादि । अश्वेषु अश्वानामिभानां गजानां स्वामिनः पतयः, अश्वसेनापतयो गजसेनापतयश्चेत्यर्थः । तथा अनसां शकटानामुपलक्षणत्वाद्रथानां च पत्तिषु पदातिसैन्यानां चेश्वराः पतयः १--२-३-४ कुशलाऽऽयुक्तशब्दाभ्यां योगे वा सप्तमीति यथायथं शेषे षष्ठी सप्तमी च ॥ ९१ ॥ १--२-३-४-५-६ स्वामीश्वराऽधिपतियोगे वा सतमीति यथाययं सप्तमी षष्टी च ॥ ९२ ॥

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246