Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रङ्करोदयाख्यव्याख्यासहितम्
मृदङ्गैरित्यादि । ध्वनिना नादेन कृत्वा द्यामाकाशं रुद्धवद्भि(तवद्भिर्मृदङ्गैस्तदाख्यैः प्रसिद्ध वाद्यविशेषैः कर्तृभि धनो मेघोऽनुकृतो लक्षणया मेघध्वनि विडम्बितः, सामीप्याद् ध्वनिनैवेतिबोध्यम् । मृदङ्गा वाद्यमाना मेघध्वनितुल्यं ध्वानं चक्रुरित्यर्थः । मृदङ्गध्वने मेघध्वनितुल्यत्वादेव मेघध्वनिभ्रमाद् हर्ष मोदं गतैः प्राप्तैः शिखिभिर्मयूरैः, मयूराणां धनध्वनिः प्रिय इति प्रसिद्धः । सतां विजययात्राशकुनज्ञानां मताः शुभशकुनत्वादिष्टाः, वर्तमाने क्तः । केकाः स्ववाण्यः शीलिताः पुनः पुनः कृताः, अभ्यस्ता इत्यर्थः । भूते क्तः ॥ ८७ ॥
आरक्ष रक्षितं भूपस्या १ ऽऽसितं प्रति योषितः । कीर्तेः । श्रियां ३ नु हसितं मौक्तिकस्वस्तिकान् व्यधुः॥८८
आरक्षरित्यादि । आरक्षैरङ्गरक्षकै रक्षितं कृतरक्षम् , भूते क्तः। भूपस्य नृपस्य मूलराजस्य आसितमासनम् ,. आधारे क्तः । सिंहासनमित्यर्थः । तत्प्रति लक्षीकृत्य योषितोऽविधवाः स्त्रियोऽति-- निर्मलत्वाच्चाकचक्याऽश्चितत्वाच्च कीर्ते यशसः श्रिया लक्ष्म्या हसितं नु हास इवोत्प्रेक्षितान् मौक्तिकस्वस्तिकान् मङ्गलाय मौक्तिकैः कृताः स्वस्तिका आलेपनविशेषास्तान् व्यधुर्विरचयन्ति स्म । मङ्गलार्थ हि स्त्रीभिः स्वस्तिका रच्यन्ते ॥ ८८ ॥
४ वर्तमाने ते न षष्ठीनिषेधः ॥ ८७ ॥
१ आधारे ते न षष्ठीनिषेधः। २-३ मावे ते वाषष्ठीति यथावर्ष सृतीया षष्ठी च ॥ ८८॥
28

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246