Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रङ्करोदयाख्यव्याख्यासहितम्
१११
अथ यात्रारम्भं वर्णयन्नाह--- नेतव्योऽन्तं १ रिपुः पात्रा गाम २ नेनेच्छना ३ यशः । पूरं पूरं नमो ५ नादै दुन्दुभिः प्रोचिवानिदम् ६ ॥ ८४ ॥ ___ नेतव्य इत्यादि । अनेन प्रस्तुतेन मूलराजेन गां पृथिवीं पात्रा दुर्जननिग्रहेण कृत्वा रक्षित्रा सता तथा तत्कृतमेव यशः कीर्ति मिच्छनाऽभिलाषुकेण रिपुः शत्रुग्रीहरिपुप्रभृतिरन्तं नाशं नेतव्यः प्रापणीयः, शत्रु हत्वा यशो विन्देत गां च रक्षेदिति यावत् । इदमुक्तप्रकारार्थ वचः, नादै निभिः कृत्वा नभो व्योम पूरं पूरं व्याप्य व्याप्य दुन्दुभी रणभेरी प्रोचिवान्नु जगाविव । रणभेरीनादै ग़म व्याप्तमित्याशयः ॥ ८४ ॥
पवमानो जगत्तन्वन् १ स्वरं २ बिभ्राणमुच्चताम् ३ । चक्राणो मङ्गलं ४ शङ्खश्छन्दो ५ ऽधीयन्निव द्विजः ॥८५
पवमान इत्यादि । शङ्खो विजययात्राशङ्खः छन्दो वेदमधीयन् सुस्वरं पठन् द्विजो ब्राह्मण इव उच्चतां तारत्वमुदात्तत्वं च बिभ्राणं धारयन्तं स्वरं ध्वनि तन्वन् कुर्वन् , अत एव जगत् लोकं पवमानः पवित्रयन्नापूरयंश्च मङ्गलं शुभाशंसनं चक्राणश्चके । यात्रा
१-३ उभयहेतोः कृत्यस्य योगे कर्मकोंन षष्ठीति कर्तरि तृतीया गोणे कर्मणि च द्वितीया । २-४-५-६ तृन्नुदन्ताऽव्ययक्षसुयोगे न षष्ठीति द्वितीया ॥ ८४ ॥
१-२-३-४-५ आनशत्रतृश्योगे षष्ठी नेति. द्वितीया ॥ ८५॥

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246