Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 226
________________ भद्रकरोदयाख्यव्याख्यासहितम् २०९ शरदि त्रिविधो वायुर्वर्ण्यतेऽनियत दिग्गतिश्च सः ॥ ८० ॥ कृतिः स्वराणां चीभि १ विपञ्चीनामिवाऽऽबभौ । ऋतुमत्येव २ काशाल्याः कुसुमस्य प्रकाशनम् ॥ ८१ ॥ कृतिरित्यादि । क्रौञ्चीभिः क्रौञ्चपक्षिजातिस्त्रीभिः कत्रभिः स्वराणां कूजितानां कर्मभूतानां कृति विधानम् क्रौञ्चीकूजितमिति यावत् । विपञ्चीनां वीणानां कर्त्रीणां स्वराणां कृतिरिव आबभौ कर्णप्रियतयाऽऽविर्बभूव । तथा, काशाल्याः काशाख्य तृणश्रेण्याः कर्ष्णः कुमुमस्य जातावेकत्वमिति पुष्पाणां कर्मभूतानां प्रकाशनमावि - भीवः, ऋतुमत्याः रजस्वलायाः कः कुसुमस्य स्त्रीधर्मस्य रजसः कर्मभूतस्य प्रकाशनमिवाऽऽबभौ । अत्र स्त्रीधर्मस्य रक्तत्वात्प्रकाशनमात्रेण साम्यं बोध्यम् । किन्तु जुगुप्साव्यञ्जकत्वा निकृष्टग्राम्यत्वादसभ्यत्वाच्चाऽत्यन्तमनुचितमिति प्रतिभाति । शरदि हि क्रौञ्चयः श्रुतिप्रियं कूजन्ति काशानि च कुसुमितानि भवन्ति ॥ ८१ ॥ " शृङ्गस्य त्याग एणानां मित्रस्येव दुरात्मभिः १ । विभित्सा भेदिका चोक्ष्णां २ पयसामिव रोधसः ||८२ ॥ शृङ्गस्येति । एणानां मृगाणां कर्तॄणां शृङ्गस्य विषाणस्य १ - २ कर्तृकर्मषष्ठीहेतोः कृतो योगे वाषष्ठी पक्षे तृतीया ॥ ८१ ॥ १ कर्तृकर्मषष्ठी हेतोः कृतो योगे कर्त्तरि वा षष्ठीति तृतीया । २३ स्त्र्यधिकार विहिताऽणकप्रत्ययपर्युदासाद् द्विहेतोः कृतो योगेऽपि षष्ठयेव ॥ ८२

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246