Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 224
________________ मकरोदयाख्यव्याख्यासहितम् द्यधमगते स्त्यागे परिहारे सति द्योः स्वर्गस्य कर्मभूतस्य यानस्य साधकः सम्पादकोsध्वा मार्गः, अर्थात्पितृणामेवेति बोध्यम् । वत्साख्यो ज्योतिषे प्रसिद्ध आकाशे मार्गवल्लक्ष्यमाणत्वात्पितृमार्गत्वेन प्रसिद्ध इत्यर्थः । ध्रुवस्य तदाख्यस्य नक्षत्रस्य दक्षिणतो दक्षिणस्यां दिशि वातापे स्तदाख्यासुरविशेषस्य कर्मभूतस्य प्सातु भक्षकस्य अगस्तेरंगस्तिमुनिसाहृनक्षत्रविशेषस्य उत्तरतः उत्तरस्यां दिशि अभात् लक्षितो बभूव । मुनिपीडको वातापि नामाऽसुरोऽगस्त्येन भक्षितः, स एवागस्त्यो दक्षिणस्यां तदाख्यनक्षत्रमिति पौराणिकाः । आकाशे शरदि लक्ष्यमाणेन वत्साख्येन मार्गेण पितरो दुर्गतिं विहाय स्वर्ग गच्छन्तीति तद्विदः । स च वत्सो ध्रुवाऽगस्त्योर्मध्ये लक्ष्यते ॥७८॥ २० निद्रां योऽत्यक्तपूर्व्यब्दै गर्जकैः साध्वपां १ पिबैः । स तामत्यजदम्भोधौ कैटभस्य २ मधु ३ द्विषन् ॥ ७९ ॥ निद्रा मित्यादि । यो विष्णुरम्भोधौ क्षीरसागरे, निवसन्निति बोध्यम् । अपां जलानां पिबैः पिबन्तीति पिवास्तै स्तादृशै र्जलानि पित्रद्भिः, जलसम्भृतैरित्यर्थः । अत एव साधु सातिशयं मर्जकैः गर्जितानि कुर्वद्भिरब्दै जलधरैः, वर्षासु मेघो सरिदादिजलानि पिवतीति प्रसिद्धम् । निद्रां शयनमत्यक्तपूर्वी त्यक्ता पूर्वमनेनेति त्यक्तपूर्वी, न तादृश इत्यत्यक्तपूर्वी, जलधरगर्जनयाऽपि यो निद्रां न जहाँ स १ कर्मणि कृद्योगे षष्ठी । २- ३ अनुशन्तस्य द्विषः कर्मणि वा षष्ठी पक्षे द्वितीया ॥ ७९ ॥

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246