Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
मद्रकरोदयाख्यव्याख्यासहितम्
:
कृच्छ्रेत्यादि । शरत् तदाख्यर्तुः कृच्छ्रेण कष्टेन अर्कस्य सूर्यस्य वीक्ष्यत्वाद् अवलोकितुं शक्यत्वात् कतिपयादल्पेन ग्रीष्मो निदाघात्मकः । शरदि रवेः प्रचण्डाः करा:, ततः स दुर्दर्शो धर्मकर भवति । तथा, अल्पैर्विरलैर्मेघैरम्बुदैः, स्तोकैरल्पै गर्जितैः स्तनितैश्च कृत्वा, मेघानामल्पत्वादिति बोध्यम् । कतिपयेनाऽल्पेन शरत् प्रावड् वर्षत्वात्मिका, अभूदिति शेषः । एतेन समशीतोष्णत्वाच्छरदः सुखावहत्वमुक्तम् ॥ ७५ ॥
1
क्लान्ताः कृच्छ्रेण तापेन ज्योत्स्नायाः १ प्रागजात । वीचिह्नादैस्ततोऽजानंचकोराः सरसां २ पयः ॥ ७६ ॥
२०५
क्लान्ता इत्यादि । चकोरास्तदाख्याः पक्षिणः कृच्छ्रेण कष्टेन लक्षणया कष्टकरेणेत्यर्थः । तापस्याऽत्युमत्वात्कष्टाधिक्यं ध्वनितुं कारणे कार्योपचारो बोध्यः । तापेनाऽऽतपेन क्लान्ता आचाः सन्तः, प्राक् आदौ सरसां तडागानां पयो जलं ज्योत्स्नायाः कौमुद्या अजानत, सरोजले ज्योत्स्नाभ्रमात्प्रवृत्ताः । आर्चस्य शीतमिच्छतो भ्रमः सुलभ इति भावः । एतेन शरदि सरोजलस्य ज्योत्स्नावन्निर्मलत्वं ध्वन्यते । यद्वा ज्योत्स्ना प्रियत्वाद् रागावेशात्सरोजलमेव ज्योत्स्नारूपेण प्रतिपन्नवन्तः । रागाधिक्यात्तद्विषयो भ्रमो रागिणां प्रतीत इति बोध्यम् । ततो ज्योत्स्नाया अलाभाद्वाधज्ञानात्तादृशभ्रमनिरासानन्तरं
१ अज्ञानार्थस्य जानाते योगे षष्ठी । २ ज्ञानार्थत्वात्सम्बन्धसामान्ये षष्ठी ॥ ७६ ॥
27

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246