Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 220
________________ भद्रङ्करोदयाख्यव्याख्यासहितम् बद्धो निगृहीतो नु, न्वितीवार्थे । अस्थादतिष्ठत् । यथा ऋणस्याऽविशोधे ऋणिकेन बद्धोऽधमर्णोऽतिघर्मेऽपि आतप एव निरुपायस्तिष्ठति न तु शैत्यार्थ जलं प्रविशति तथेत्यर्थः । शरदि कच्छपा जलानि - त्याssतपे तिष्ठन्ति ॥ ७२ ॥ सौरभा १ दनुरागेण मुदा बद्धोऽलिरभ्रमत् । कुमुदस्या ३ ऽन्तिकेऽब्जाच्च ४ दूरे नीपस्य केतकात् ६ ॥ ७३ ॥ २०३ सौरभादित्यादि । अलि भ्रमरः जातावेकत्वम् । सौरभाकुमुदाऽजामोदाद् हेतो जीतेन अनुरागेण प्रेम्णा हेतुनोद्भूतया मुदा हर्षेण वद्धः सम्भृतचेताः सन् कुमुदस्य कैरवस्य अब्जात् कमलादन्तिके समीपे नीपस्य कदम्बस्य केतकात् केतकीपुष्पाद् दूरेऽकालप्राप्तत्वेनाऽमनोज्ञत्वा द्विरागाद् दूर एव च अभ्रमदति स्म । कालोचितस्य हि प्रेम्णा समीपं गच्छन्ति, अकालप्राप्तस्य च विरागेण दूरं गच्छन्ति । शरदि न नीपकेतकयो र्मनोज्ञत्वं सतोरपि, कुमुदाजयोस्तु कालोचितत्वात्तत्त्वम् । शरदि भ्रमराः कुमुदादिसमीपे भ्रमन्ति ॥ ७३ ॥ १ गुणाद् हेतौ पञ्चमी । स्त्रिलिङ्गस्वान्मुदेति गुणादपि न पञ्चमी किन्तु तृतीया । ३-४-५-६ आरादधैर्योगे पञ्चमीति यथायथ पञ्चमी पक्षे षष्ठी च शेषे ॥ ७३ ॥

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246