Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
२.४
कारकड्याश्रयकाव्यम्
स्तोकाजातीः १ स्पृशन् स्तोकेना २ ऽब्जान्यल्पाच्च ३ शीकरान् । अल्पेन ४ वानपि मरुत् कृच्छ्रात्सेहे ५ वियोगिभिः ॥ ७४ ॥
स्तोकादित्यादि । स्तोकाद् ईषज्जाती मल्लिकाः, उपलक्षणस्वात्तत्पुष्पाणीत्यर्थः । स्तोकेन ईषदब्जानि विकचानि कमलानि, एतेन सौरभ्यमुक्तम् । अल्पादीषत् शीकरान् जलकणांश्च, एतेन शैत्यमुक्तम् । चः समुच्चये । तेन स्पृशन्निति जात्यादिभिः प्रत्येकं सम्बध्यते । स्पृशन् यथायथमान्दोलयन् वहंश्च मरुत् पवनोऽल्पेन मन्दं वान् सञ्चरन्नपि, पुष्परजोजलकणभारादिवेति ध्वनिः । अत एव जात्यादीनामीषत्स्पर्श इति बोध्यम् । वियोगिभि विरहिभिः कृच्छात् कष्टं यथास्यात्तथा सेहे मृष्टः । सुरभिः शीतलो मन्दश्च मरुत्कामोद्दीपकतया विरहिणां तापाय कल्पते इत्याशयः । शरदि जातयः कमलानि च पुष्पन्ति मरुच्च मन्दं वाति ॥ ७४ ॥
कृच्छ्रेणा १ ऽर्कस्य वीक्ष्यत्वाद् ग्रीष्मः कतिपया २ च्छरत् । प्रावृट् कतिपयेना ३ ऽल्पै ४ मैंधैःस्तोकैश्च ५ गर्जितैः ॥ ७५
१-२-३-४-५ असत्त्वे स्तोकादिभ्यो वा पञ्चमी पक्षे सहार्थे तृतीया ॥ ७४ ॥
१-२-३ असत्त्वे कृच्छ्रकतिपयाभ्यां वा पञ्चमी । पक्षे सहार्थे तृतीया ४-५ सत्त्ववृत्तित्वादयस्तोकाभ्यां करणे हेतौ वा तृतीया ॥ ७५ ॥

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246