SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २.४ कारकड्याश्रयकाव्यम् स्तोकाजातीः १ स्पृशन् स्तोकेना २ ऽब्जान्यल्पाच्च ३ शीकरान् । अल्पेन ४ वानपि मरुत् कृच्छ्रात्सेहे ५ वियोगिभिः ॥ ७४ ॥ स्तोकादित्यादि । स्तोकाद् ईषज्जाती मल्लिकाः, उपलक्षणस्वात्तत्पुष्पाणीत्यर्थः । स्तोकेन ईषदब्जानि विकचानि कमलानि, एतेन सौरभ्यमुक्तम् । अल्पादीषत् शीकरान् जलकणांश्च, एतेन शैत्यमुक्तम् । चः समुच्चये । तेन स्पृशन्निति जात्यादिभिः प्रत्येकं सम्बध्यते । स्पृशन् यथायथमान्दोलयन् वहंश्च मरुत् पवनोऽल्पेन मन्दं वान् सञ्चरन्नपि, पुष्परजोजलकणभारादिवेति ध्वनिः । अत एव जात्यादीनामीषत्स्पर्श इति बोध्यम् । वियोगिभि विरहिभिः कृच्छात् कष्टं यथास्यात्तथा सेहे मृष्टः । सुरभिः शीतलो मन्दश्च मरुत्कामोद्दीपकतया विरहिणां तापाय कल्पते इत्याशयः । शरदि जातयः कमलानि च पुष्पन्ति मरुच्च मन्दं वाति ॥ ७४ ॥ कृच्छ्रेणा १ ऽर्कस्य वीक्ष्यत्वाद् ग्रीष्मः कतिपया २ च्छरत् । प्रावृट् कतिपयेना ३ ऽल्पै ४ मैंधैःस्तोकैश्च ५ गर्जितैः ॥ ७५ १-२-३-४-५ असत्त्वे स्तोकादिभ्यो वा पञ्चमी पक्षे सहार्थे तृतीया ॥ ७४ ॥ १-२-३ असत्त्वे कृच्छ्रकतिपयाभ्यां वा पञ्चमी । पक्षे सहार्थे तृतीया ४-५ सत्त्ववृत्तित्वादयस्तोकाभ्यां करणे हेतौ वा तृतीया ॥ ७५ ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy