Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
२०२.
कारक्याश्रयकाव्यम्
गम्येऽपीत्यादि । जना लोका महानवम्या आश्विनशुक्लनवमीतिथेरपरेऽनन्तरेऽह्नि दिने, द्वितीये दिने इत्यर्थः । विजयदशम्यामिति यावत् । ग्रामाद् उपलक्षणत्वान्नगरादिभ्यः पश्चिमे पश्चिमदिक्स्थे देशे भूमौ गम्ये पश्चिमदिग्यात्रामुहूर्तसत्त्वाद् गतिप्रतिकूलनक्षत्राद्यभावाच्च सुगेऽपि सति क्रोशात् क्रोशपरिमितदेशात्परेण सीम प्रामादिसीमानं लचितुमुत्तरीतुं ययुर्जग्मुः । विजयदशम्यां हि क्रोशाधिक शकुनादिलाभाय जना गच्छन्ति, तथाऽऽचारात् । तच्च सीमोल्लङ्घनमिति प्रसिद्धम् । तत्र च प्राच्यामेव गच्छन्ति नाऽन्यां दिशम् । यद्वा ग्रामपदोपादानाद् ग्राम्याणामेषा रूढि येत्याच्यामेव गच्छन्ति नागरास्तु सीमोल्लचितुं शुभमुहूर्त्तादिनाऽनुकूलां पश्चिमादिदिशमपि गच्छन्ति ॥ ७१ ॥
आरातीरा ' बहिर्नीरा २ च्छीतेभ्य ३ इतरै रवेः । अप्युप्रैस्ताप्यमानोऽस्थाद् ऋणाबद्धो ४ नु कच्छपः ॥७२॥
आरादित्यादि । कच्छपः कमठः, जातावकत्वम् । शीतेभ्यः शीतलेभ्य इतरै भि नैः, तद्विरोधित्वात्तद्वितीयः, एवं चाऽत्युप्णरित्यर्थः । अतिशयलाभार्थमेव निषेधमुखेन प्रतिपादनमिति बोध्यम् । रवेः सूर्यस्य उौः किरण स्ताप्यमानः सन्ताप्यमानोऽपि नीराज्जलाबहिरुपरि देशे तीरादारात् तडागादितीरसमीपे ऋणाद् देयाद् हेतोः
१-२-३ आराद्वहिरितरशब्दयोंगे यथावथ पञ्चमी । ४ हेतौ ऋणात्पञ्चमी ॥ ७२ ॥

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246