Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
कारकयाश्रयकाव्यम्
प्रतीत्यादि । सप्तच्छदानि शारदतरुपुष्पाणि द्विपमदामोदाद् द्विपस्य गजस्य यो मदो दानवारि तस्य य आमोदः सौरभ्यं तस्मात्प्रति तत्प्रतिनिधिभूतम् , तत्तुल्यमित्यर्थः । गन्धं सौरभ्यमधुधृतर्वन्ति । मारुताः समीराश्च शेफालीभ्यस्तदाख्यलताविशेषपुष्पेभ्यो गन्धात् प्रति सौरभ्यस्य प्रतिदानभूतं लास्यं नृत्यं ददुः शिक्षयामासुः । कलोपाध्याया हि गन्धादि गृहीत्वा नृत्यं शिक्षयन्ति । शरदि गजा माद्यन्ति, मदगन्धीनि सप्तच्छदपुष्पाणि उद्गच्छन्ति, शेफालीपुष्पाणि च सुगन्धीनि विकसन्ति, मारुताश्च मन्दं वहन्ति, लतादीन् कम्पयन्ति आमोदांश्च दिक्षु नयन्ति ॥ ६८ ॥
उपाध्यायादधीत्येव १ केकी श्रुत्वा नटस्य २ वा । प्रासादाग्राननतेनं ३ पौर्यः प्रेक्षन्त चाऽऽसनात् ४ ॥ ६९ ॥
उपाध्यायादित्यादि । केकी मयूरः उपाध्यायात् कलागुरोधीत्य नियमपूर्वकं नृत्यविद्यामधिगम्येव, वा तथा नटस्य नृत्ताजीवस्य वेतनादिना नृत्यविद्यां श्रुत्वेवाऽऽकर्येव, लुप्तोत्प्रेक्षा । अथवा पूर्वमुपात्त इवशब्द इह सम्बन्धनीयः । प्रासादाग्रात् प्रासादायमारुह्य, देवायतनादिशिखरमारुह्येत्यर्थः । ननत नृत्यं चकार । यथा नृत्यविद्यां गुरोरधीत्य नटस्य तां श्रुत्वा च नृत्यनिपुणश्चारु नृत्यति तथा मयूरोऽपि जातिस्वभावाच्चारु नृत्यतीत्युत्प्रेक्षा । अत एव, मनो
१-२ नियमपूर्वकविद्यास्वीकारे पञ्चमी । तदभावाच्च नटस्येति सम्बन्धसामान्ये पष्ठी । ३-४ यपि गम्ये पञ्चमी ॥ ६९ ॥

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246