Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रङ्करोदयाख्यव्याख्यासहितम्
वारणार्थ सस्यसमृद्धयर्थं च कारीरीष्टिप्रभृतियागे विहिता वाचो मन्त्राः सस्यश्रिया सस्यसम्पदा प्रचुरसस्यनिष्पत्त्या हेतुना कृत्वाऽफलन् सफला जाताः ॥६६॥
प्रजांभ्यः १ स्वस्त्यभूनिद्रा समुद्रशयनाद्ययौ २ । आ सिन्धोः ३ शाद्वलान्यासन्नश्मरात् ४ पर्यपोषरात् ५ ॥ ६७
प्रजाभ्य इत्यादि । प्रजाभ्यो लोकेभ्यः स्वस्ति सस्यादि. सम्पत्त्या भद्रमभूत् । समुद्रशयनात् समुद्रः क्षीरसागरः शयनं शय्या शयनस्थानं वा यस्य स तादृशो विष्णुस्तस्माद्विश्लिप्य निद्रा शयनं ययौ अपगता। कार्तिक शुक्लैकादश्यां विष्णुर्निद्रां त्यजतीति पौराणिकाः। लोकाश्च देवोत्थानकादशीति कीर्तयन्ति उपवासादिकं च कुर्वन्ति, विधिना विष्णुमुत्थापयन्ति च । आसिन्धोः समुद्रपर्यन्तं नदीमभिव्याप्य वा अश्मरादप अश्मवन्तं देशं वर्जयित्वा ऊपरात्परि ऊपरमिरिणं क्षारमृत्तिकाप्रधान देशं वर्जयित्वा च शावलानि हरिततृणाच्छादितत्वात्सहरितानि भूखण्डानि आसन्नभूवन् । वर्षों घासा. नामुद्माच्छरदि तर्देशाः शाद्वलिनो भवन्ति ॥ ६७ ॥
प्रतिद्विपमदाऽऽमोदाद् गन्धं सप्तच्छदान्यधुः। शेफालीभ्यो ददुलास्यं प्रति गन्धाच २ मारुताः ॥६८॥
१ भद्रार्थकयोगे चतुर्थी । २ अपादाने पञ्चमी । ३ मर्यादाभिविध्योरङा योगे पञ्चमी। ४-५ वर्जनार्थकपर्यपाभ्यां योगे पञ्चभी ॥१७॥
१-२ प्रतिनिधिप्रतिदानयोः प्रतिना योगे पञ्चमी ॥ १८ ॥

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246