SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्यासहितम् वारणार्थ सस्यसमृद्धयर्थं च कारीरीष्टिप्रभृतियागे विहिता वाचो मन्त्राः सस्यश्रिया सस्यसम्पदा प्रचुरसस्यनिष्पत्त्या हेतुना कृत्वाऽफलन् सफला जाताः ॥६६॥ प्रजांभ्यः १ स्वस्त्यभूनिद्रा समुद्रशयनाद्ययौ २ । आ सिन्धोः ३ शाद्वलान्यासन्नश्मरात् ४ पर्यपोषरात् ५ ॥ ६७ प्रजाभ्य इत्यादि । प्रजाभ्यो लोकेभ्यः स्वस्ति सस्यादि. सम्पत्त्या भद्रमभूत् । समुद्रशयनात् समुद्रः क्षीरसागरः शयनं शय्या शयनस्थानं वा यस्य स तादृशो विष्णुस्तस्माद्विश्लिप्य निद्रा शयनं ययौ अपगता। कार्तिक शुक्लैकादश्यां विष्णुर्निद्रां त्यजतीति पौराणिकाः। लोकाश्च देवोत्थानकादशीति कीर्तयन्ति उपवासादिकं च कुर्वन्ति, विधिना विष्णुमुत्थापयन्ति च । आसिन्धोः समुद्रपर्यन्तं नदीमभिव्याप्य वा अश्मरादप अश्मवन्तं देशं वर्जयित्वा ऊपरात्परि ऊपरमिरिणं क्षारमृत्तिकाप्रधान देशं वर्जयित्वा च शावलानि हरिततृणाच्छादितत्वात्सहरितानि भूखण्डानि आसन्नभूवन् । वर्षों घासा. नामुद्माच्छरदि तर्देशाः शाद्वलिनो भवन्ति ॥ ६७ ॥ प्रतिद्विपमदाऽऽमोदाद् गन्धं सप्तच्छदान्यधुः। शेफालीभ्यो ददुलास्यं प्रति गन्धाच २ मारुताः ॥६८॥ १ भद्रार्थकयोगे चतुर्थी । २ अपादाने पञ्चमी । ३ मर्यादाभिविध्योरङा योगे पञ्चमी। ४-५ वर्जनार्थकपर्यपाभ्यां योगे पञ्चभी ॥१७॥ १-२ प्रतिनिधिप्रतिदानयोः प्रतिना योगे पञ्चमी ॥ १८ ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy