SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ कारकयाश्रयकाव्यम् प्रतीत्यादि । सप्तच्छदानि शारदतरुपुष्पाणि द्विपमदामोदाद् द्विपस्य गजस्य यो मदो दानवारि तस्य य आमोदः सौरभ्यं तस्मात्प्रति तत्प्रतिनिधिभूतम् , तत्तुल्यमित्यर्थः । गन्धं सौरभ्यमधुधृतर्वन्ति । मारुताः समीराश्च शेफालीभ्यस्तदाख्यलताविशेषपुष्पेभ्यो गन्धात् प्रति सौरभ्यस्य प्रतिदानभूतं लास्यं नृत्यं ददुः शिक्षयामासुः । कलोपाध्याया हि गन्धादि गृहीत्वा नृत्यं शिक्षयन्ति । शरदि गजा माद्यन्ति, मदगन्धीनि सप्तच्छदपुष्पाणि उद्गच्छन्ति, शेफालीपुष्पाणि च सुगन्धीनि विकसन्ति, मारुताश्च मन्दं वहन्ति, लतादीन् कम्पयन्ति आमोदांश्च दिक्षु नयन्ति ॥ ६८ ॥ उपाध्यायादधीत्येव १ केकी श्रुत्वा नटस्य २ वा । प्रासादाग्राननतेनं ३ पौर्यः प्रेक्षन्त चाऽऽसनात् ४ ॥ ६९ ॥ उपाध्यायादित्यादि । केकी मयूरः उपाध्यायात् कलागुरोधीत्य नियमपूर्वकं नृत्यविद्यामधिगम्येव, वा तथा नटस्य नृत्ताजीवस्य वेतनादिना नृत्यविद्यां श्रुत्वेवाऽऽकर्येव, लुप्तोत्प्रेक्षा । अथवा पूर्वमुपात्त इवशब्द इह सम्बन्धनीयः । प्रासादाग्रात् प्रासादायमारुह्य, देवायतनादिशिखरमारुह्येत्यर्थः । ननत नृत्यं चकार । यथा नृत्यविद्यां गुरोरधीत्य नटस्य तां श्रुत्वा च नृत्यनिपुणश्चारु नृत्यति तथा मयूरोऽपि जातिस्वभावाच्चारु नृत्यतीत्युत्प्रेक्षा । अत एव, मनो १-२ नियमपूर्वकविद्यास्वीकारे पञ्चमी । तदभावाच्च नटस्येति सम्बन्धसामान्ये पष्ठी । ३-४ यपि गम्ये पञ्चमी ॥ ६९ ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy