SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्य व्याख्यासहितम् रञ्जनात्कौतुकाच्च पौर्यः पुरस्त्रियः आसनात्फलकाद्यासने उपविश्य एनं नृत्यन्तं केकिंन प्रैक्षन्त सादरमवालोकयन्त । शरद्यपि मयूरा नृत्यन्ति ॥ ६९ ॥ २०१ वर्षात्ययात् प्रभृत्यब्जोद्गमादा २ रभ्य चाssवभौ । अन्य वीणाक्वणाद् ३ भिन्नो वेणुनादा ४ दलिस्वनः ॥७० वर्षात्ययादित्यादि । वर्षाऽत्ययाद् वर्षाणां वर्षर्त्तेरत्ययोऽपगमस्ततः प्रभृति तत आरभ्य, अब्जोद्गमाद् अब्जानां कमलानामुद्गम उद्भेदस्तत आरभ्य च अलिस्वनः अलीनां भ्रमराणां कमलमधुपानोन्मदानां स्वनो गुञ्जनम्, वीणाक्वणाद् वीणायास्तन्त्र्याः कणः प्रक्वाणस्तदन्यो विलक्षणः, वेणुनादाद् वेणोवाद्यविशेषस्य नादात्स्वनादू भिन्नः विसदृशः, तयोनीदाऽपेक्षयाऽप्यधिकं कर्णप्रियत्वादिति भावः । अत एव, आबभौ वेणुवीणास्वनाऽपेक्षयाऽतिशयेन शुशुभे । अतिशयेन चित्तावर्जकत्वादिति भावः । शरदि कमलानां विकासात्तन्मधुपानोन्मदानां भ्रमराणां गुञ्जनमति मधुरं भवेत् ॥ ७० ॥ गम्येsपि पश्चिमे देशे ग्रामात्प्राच्यां १ ययुर्जनाः । महानवम्या २ अपरेऽह्नि क्रोशात् ३ सीम लङ्घितुम् ॥ ७१ ॥ १-२ प्रभृत्यर्थयोगे पञ्चमी । ३-४ अन्यार्थयोगे पञ्चमी ॥ ७० ॥ १ दिशि दृष्टत्वाद्देशवृत्तिनाऽपि दिक्शब्देन योगे दिक्शब्दयोगे च २ कालावृत्तिदिक्शब्दयोगे पञ्चमी । ३ गम्यमानेऽपि दिक्शब्दे पञ्चमी ॥ ७१ ॥ पञ्चमी ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy