Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
१९८
कारकव्याश्रय काव्यम्
शरदा किं परिक्रीताः सहस्राया १ ऽयुतेन २ वा । अलं केल्यै ३ श्रियै ४ शक्ता हंसास्तस्या यदन्वयुः ॥ ६५ ॥
शरदेति । हंसाः स्वनामप्रसिद्धाः पक्षिणः । केल्यै क्रीडायै अलं शक्ताः श्रियै शोभायै शक्ताः समर्थः । हंसा: क्रीडासाधनं शोभाहेतुश्च स्वयमपि च ते क्रीडापराः शोभमानाश्चेत्यतः शरदा तदाख्यर्तुना सहस्राय सहस्रसुवर्णादिमुद्रयाऽयुतेन दशसहस्रसुवणीदिमुद्रया वा परिक्रीताः नियतकालं स्वायत्तीकृताः किमित्युत्प्रेक्षायाम् । यद् यस्मात्ते तस्याः शरदोऽन्वयुरनुसरणं विदधुः । सेवका हि क्रीडाशोभादिनिपुणा वेतनादिना स्वयत्तीक्रियन्ते धनिकैः काले । ते च ताननुसरन्ति नियतकालं यावत् । हंसाश्च शरदि समागच्छन्ति, ततस्तथोत्प्रेक्षेति बोध्यम् ॥ ६५ ॥
:
स्वधा पितृभ्य १ इन्द्राय २ वषट् स्वाहा हविर्भुजे ३ । नमो देवेभ्य इत्युत्विग्वाचः सस्यश्रियाऽफलन् || ६६ ।।
४
स्वधेत्यादि । पितृभ्योऽभिष्वात्तादिभ्यः पितृभ्यः स्वधा हविस्त्यागोऽस्तु, इन्द्राय देवेन्द्राय वषट् हविस्त्यागोऽस्तु हवि - र्भुजेऽग्नये स्वाहा हविस्त्यागोऽम्तु, देवभ्यो नमो नमस्कारोऽस्तु, इतीत्थम् ऋत्विग्वाचः ऋत्विजां पुरोहितानामृतौ वर्ष वर्षविघ्ननि
१-२ वेतनादिना कियत्कालात्मसात्कारे परिक्रयणे वा यथं चतुर्थी तृतीया च । ३ - ४ शक्तार्थैर्योगे चतुर्थी ॥ ६५ ॥ १-२-३-४ स्वधादिशब्दयोगे चतुर्थी ॥ ६६ ॥
चतुर्थीति यथा

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246